SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ६०८ स्थानासूचे सप्त स्वरा अजीयनिश्रिताः प्रज्ञप्ताः तद्यथा षड्जं रौति मृदङ्गो, गोमुखी ऋषभं स्वरम् । शङ्खो नदति गन्धारं, मध्यमं पुनर्झल्लरी ॥६॥ चतुश्चरणप्रतिष्ठाना, गोधिका पञ्चम स्वरम् । आडम्बरो धैवतिकं, महाभेरी च सप्तमम् ॥ ७ ॥ एतेषां खलु सप्तस्वराणां सप्तस्वरलक्षणानि प्रज्ञप्तानि, तद्यथा षड्जेन लभते वृत्ति, कृतं च न विनश्यति । गायो मित्राणि च पुत्राश्व, नारीणां चैव वल्लभः ॥ ८॥ ऋषभेण तु ऐश्वर्य, सैनापत्यं धनानि च । वस्त्रं गन्धमलङ्कारं स्त्रियः शयनानि च ॥९॥ गान्धारे गीतयुक्तिज्ञाः, पर्यवृत्तयः कलाधिकाः । भवन्ति कृतिनः प्राज्ञाः, ये अन्ये शास्त्रपारगाः ॥ १०॥ मध्यमस्वरसम्पन्नाः, भवन्ति सुखजीविनः । खादति पिबति ददाति, मध्यमं स्वरमाश्रितः ॥ ११ ॥ पश्चमस्वरसग्पन्ना भयन्ति पृथिवी पतयः।। शूराः संग्रहकर्तारः, अनेकगणनायकाः ॥ १२ ॥ धैवतस्वरसम्पन्ना भवन्ति कलहप्रियाः। शकुनिका बागुरिकाः, शौकरिका मत्स्यबन्धाश्च ॥ १३ ॥ चाण्डाला मौष्टिकाः सेयाः, ये अन्ये पापकर्माणः । गोघातकाच ये चौराः, निषादं स्वरमाश्रिताः ॥ १४ ॥ एतेषां सप्तानां स्वराणां त्रयो ग्रामाः प्रज्ञप्ताः, तद्यथा-पड्जग्रामः मध्यमग्रामः गान्धारग्रामः षड्जग्रामस्य खलु सप्तमर्छनाः प्रज्ञप्ताः, तद्यथा भगी कौरवीया, हरिश्च रजनी च सारकान्ता च ।। षष्ठी च सारसी नाम, शुद्धषडजा च सप्तपी॥१५॥ मध्यमग्रामस्य खलु सप्त मृछेनाः प्रज्ञप्ताः, तद्यथा उत्तरमन्दा रजनी, उत्तरा उत्तरासमा। समवक्रान्ता च सौवीरा अभीरुभवति सप्तमी ॥ १६ ॥ गान्धारग्रामस्य खलु सप्त मूर्च्छनाः प्रज्ञप्ताः, तद्यथा नन्दी च क्षुद्रिका पूरिमा च चतुर्थीव शुद्धगान्धारा। उत्तरगान्धारापि च, पञ्चमिका भवति मूर्छा तु ॥ १७ ॥ सुष्टुतरायामा सा, षष्ठी नियमशस्तु ज्ञातव्या। अथ उत्तरायता कोटिमा च सा सप्तमी मूर्छा ॥ १८ ॥ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy