SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ॥ श्री महावीराष्टकम् ॥ (शिखरिणी) प्रभुः शुद्धः सिद्धो धवलगुणसिन्धुधंवमतिः, प्रबुद्धो निक्षुब्धो निगमनिविरुद्धो जितरिपुः ॥ प्रसिद्धः सिद्धीशोऽधमलपरिषिद्धो निरुपमो, महावीरः स्वामी नयनपथगामी भवतु मे निराधाराऽऽधारो विहितहितसारो जिनवरी, विनित्यालं कालं वसति सुविशालं शिवपदे ॥ महानन्दस्यन्दः प्रणतसुरवृन्दः सुखकरो, महावीरः स्वामी नयनपथगामी भवतु मे भवभ्रान्ति ध्वान्त-प्रशमसविता सर्वजगतां, सतां ध्यानाधारो विगलितविकारो गुणनिधिः ॥ पुनीते यन्मार्गों हरति सकलं कर्म निकरं, महावीरः स्वामी नयनपथगामी भवतु मे परं ज्योतिश्चन्द्रं हतभुवनतन्द्रं सिततरं, तथा शीतीभूतं निजमलमलं हर्तुमखिलम् ॥ नभस्तद्वद्भव्यः श्रयति यममुं सोऽमरविभुमहावीरः स्वामी नयनपथगामी भवतु मे विपज्जालज्वाला प्रशमनमहामेघसदृशोयदिच्छाहीनोऽपि श्रमहरणदक्षो मलयजः॥ महामिथ्या ध्वान्तोपचित्तमनसां तिग्मकिरणो, महावीरः स्वामी नयनपथगामी भवतु मे तदेकव्यापारो जलधिजलमग्नो धृततलस्त्वभाषो निःश्वासो गलितनिखिलाशो मृगयते, महारत्नं योगीतदिव यमिनं चैति किल स, महावीरः स्वामी नयनपथगामी भवतु मे। पयः पीतं स्फीतं सुमधुरसिताद्याः समशिताः, कृता भोगासक्तिस्तदपि निजवाञ्छा न विगता ॥ यदीय ध्यानेनाखिलभुवनराज्यं शिवसुखं, महावीरः स्वामी नयनपथगामी भवतु मे प्रतीरं गंभीरं भवजलधितीरं जिगमिषु,मुनि र्घासीलालः शुभमकृत वीराष्टकमिदम् ॥ पठेद् भव्यं नव्यं परमशिवसौख्यं श्रयति यः, महावीरः स्वामी नयनपथगामी भवतु मे । इतिश्री महावीराष्टकं सम्पूर्णम् ॥४ ॥ ॥७॥ ॥८॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy