SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नमः परमात्मने। सुविहितपुरन्दरश्रीशोभनमुनिवर्यप्रणीता स्तुतिचतुर्विंशतिका श्राद्धवर्यश्रीमद्धनपालपण्डितविरचितवृत्तिश्रीपूर्वमुनिपुङ्गवविहितावचूरिसमेता च । १ श्रीऋषभजिनस्तुतयः अथ श्रीनाभिनन्दननुतिःभव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरः। . भक्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महान्, अष्टापदाभासुरैः ॥ १॥ ____-शार्दूलविक्रीडितम् ( १२,७) टीका अवतरणम् आसीद् द्विजन्माऽखिलमध्यदेश-प्रकाशशङ्कास्य(१)निवेशजन्मा। अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्षित्वैविभूषितोऽपि ॥१॥ उपजातिः शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून् महात्मा, देवः स्वयम्भूरिव सर्वदेवः॥२॥ इन्द्रवज्रा अब्जायताक्षः समजायतास्य, श्लाघ्यस्तनूजो गुणलब्धपूजः। यः शोभनत्वं शुभवर्णभाजा, न नाम नाम्ना वपुषाऽप्यत्ति ॥३॥ उप० कातन्त्रचन्द्रोदिततन्त्रवेदी, यो बुद्धबौद्धार्हततत्त्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव ॥४॥ उप० १ यद्यपि श्रीमतोऽवचूरिकारस्य नामधेयमामूलाग्रं तस्यानुल्लेखान्न ज्ञायते, तथाप्येतस्यामवर्यो कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत सिद्धहेमाभिधानचिन्तामणि'गतपाठोल्लेखादवधार्यते यदयं श्रीहेमचन्द्राचार्यसमकालीनस्तदुत्तरकालीनो वेति । २ नहि दानवर्षिर्देवर्षिर्भवितुमर्हतीति विरोधः; 'दान+वर्षि' इति छेदेन तत्परिहारः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy