SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका २४ श्रीवीरजिनस्तुतयः । अथ श्रीवीरनाथाय विज्ञप्तिः MERHIHEIHIRITURE नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे ! धरित्रीकृता वन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु 'वीर!' निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थ धाम्नि क्षमालङ्कता. वनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे हे क्षितामो हिताक्षोभवान् ॥१॥ -अर्णवदण्डकम् जिनसमूहस्य स्तुतिःसमवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपनेन्दुरुक्चामरोत्सर्पिसालत्रयी सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहीतं साहितां संहतिर्भक्तिभाजां भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता ऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ॥ २॥ भारत्यै प्रार्थनापरमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तरा___ महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्वतीतापदानन्दधानस्य सौंऽमानिनः। जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौ रती तीर्थकृत् ! महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सामानिनः३ --अर्णव० श्रीअम्बिकायाः स्तुतिः-.. सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽजिते! भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे संस्थिते! भव्यलोकं त्वमम्बा'ऽम्बिके!' परमव सुतरांगजारावसन्ना शितारातिभा राजिते भाँसिनीहारतारावलक्षेऽमदा॥४॥२४॥ -अर्णव० -अर्णव० १'वरतम | तमो.' इत्यपि पाठः।२ 'शालत्रयी-- इत्यपि पाठः। ३ मति मते' इत्यपि पदच्छेदः। ४ 'सामानिनः' इत्यपि संभवति । ५ मतिमते हिते. इति पदच्छेदान्तरम् । ६ सप्तम्यन्तं पदं वा । ७ ' भासि नौहा.' इत्यपि पदच्छेदः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy