SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિંશતિકા कौमार एवं क्षतमारवीर्य-श्रेष्ठां चिकीर्षन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् ॥ ५ ॥ इन्द्र० अभ्यस्यता धर्ममकारि येन, जीवाभिघातः कलयाऽपि नैव । चित्रं चतुःसागरचक्रकाश्चि - स्तथापि भूर्व्यापि गुणस्वनेन ॥ ६ ॥ उप० एतां यथामति विशृश्य निजानुजस्य तस्योज्ज्वलं कृतिमलंकृतवान् स्ववृत्त्या । अभ्यर्थितो विदधता त्रिदिवप्रयाणं तेनैव साम्प्रतकविर्धनपालनामा ॥ ७ ॥ वसन्ततिलका [ १ श्री ऋष भव्याम्भोजेति । 'भव्याम्भोजविबोधनैकतरणे " भव्या-मुक्तियोग्या जन्तवः त एवाम्भोजानि तेषां विबोधने - बोधजनने एकतरणे - अद्वितीयभास्वन् ! | 'विस्तारिकर्मावली रम्भासामज !' विस्तारिणी या कर्मावली - कानावरणादिमलमाला सैव रम्भा - कदली तस्याः ममर्दन हेतुत्वात् सामज - द्विरद ! | 'नाभिनन्दन !' नाभेय ! | 'महानष्टापत् !' महत्यो नष्टा आपदो यस्य तस्य सम्बोधनम् । ‘आभासुरैः' आभासनशीलैः । ' भक्त्या भावेन । ' वन्दितपादपद्म !" स्तुतचरणारविन्द ! | 'विदुषां सम्पादय' ज्ञानवतां वितर । 'प्रोज्झितारम्भ !" त्यक्तप्रारम्भ ! | असाम !' असरोग ! | 'जनाभिनन्दन !' लोकप्रल्हादन ! | 'महान् ' उत्सवान् । 'अष्टापदाभ !' सुवर्णद्युते । 'असुरैः' दानवैः । हे नाभिनन्दन ! आभासुरैरसुरै: ( भक्त्या वन्दितपादपद्म ! त्वं विदुषां ) महान् सम्पादयेति समुदायार्थः ॥ १ ॥ " अवचूरिः धनपाल पण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावात् षण्णवतिसंख्यानां शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह । नाभिनन्दन ! (हे) नाभिनरेन्द्रपुत्र ! त्वं महानुत्सवान् विदुषां संपादयेति संबन्धः । भव्या एवाभोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधन हे भव्याम्भोजविबोधनैकतरणे ! | सूर्षो यथा स्वगोसंभारैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानषि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैर्भव्यजन्तूनां बोधं विधत्ते । ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां तर्हि तस्य तद्बोधनेऽसामर्थ्यमायातमिति नैवम् । नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोद विधायिन्यपि यद्यभव्यानां केषांचिन्निवि डकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति, तर्हि तस्या नसामर्थ्यम् । किन्तु तेषामेवाभाग्यं येषां ता न रोचयन्ते (सा न रोचते)। नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं विस्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानाचरणादिनेभियनामावली माला सैव रम्भा कदली तस्याः प्रमर्वहेतुत्वात् सामजो हस्ती तस्य संबोधनम् । हे नाभिनन्दन ! (हि नाभि नरेन्द्रपुत्र ) । तथा महत्यो नहा आपदा यस्य स महानष्टापत्, संबोधनं बा । तथा आभासुरैः कान्तिसंभारेण समन्ताद् देदीप्यमानैरा सुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतिबन्धेन
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy