SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका । २२ श्रीनेमिजिनस्तुतयः । अथ श्रीनेमिनाथाय नमस्कार: चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्यसङ्ख्यं क्षणा__ दक्षामं जैन ! भासमानमहसं 'राजीमतीतापदम् । तं 'नेमि' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ १॥ -शादूलविक्रीडितम् जिनश्रेण्याः स्तुतिः प्राब्राजीजितराजका रज इव ज्यायोऽपि राज्यं जवाद् ___ या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवायासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥२॥ -शार्दूल. जिनवाणीगौरवम् कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ३ ॥ -शार्दूल. अम्बादेव्याः स्तुतिः हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद् _ विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे विततानपादपरताऽम्बा' चारिपुत्राऽसकृत् ॥४॥२२॥ -शार्दूल० १'यो लक्ष्य.' 'यो लक्षसंख्यं ''योऽलक्षसंख्यं ' इत्यपि पाठाः। २ 'जनभासमान०' इति पाठोऽपि समीचीनः।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy