________________
श्रीशोभनमुनीश्वरकृता
२१
1 २१ श्रीनमिजिनस्तुतयः
अथ श्रीनमिनाथस्य सङ्कीर्तनम्
स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं
ममायासं चारो ! दितमद ! 'नमे'ऽघानि लेपितः !। नमगव्यश्रेणीभवभयभिदा हृद्यवचसाममायासञ्चारोदितमदनमेघानिल ! पितः !॥१॥
___--शिखरिणी (६, ११) जिनेश्वराणां जयः
नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः
सदा नोदी नानामयमलमदारेरततमः। प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः
सदानो दीनानामयमलमदारेरिततमः ॥२॥-शिख० सिद्धान्तपरिचयः--
जल-व्याल-व्याघ्र-ज्वलन-गज रुग्-बन्धन-युधो
गुरुर्वाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा
गुरुर्वाऽहो ! पाता पदघनगरीयानसुमतः ॥ ३ ॥ -शिख. कालीदेव्याः स्तुतिः
विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा--
ऽसमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया--
समानाली 'काली' विशदचलनानालिकबरम् ॥ ४ ॥२१॥-शिख०
१ प्रथमान्तं पदं वा।