________________
स्तुतिचतुर्विंशतिका ooooooooooooooooooooooooccooooA २० श्रीमुनिसुव्रतजिनस्तुतयः ।
3000000000000000000000000000000
अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम्
जिन मुनिसुव्रतः समवताज्जनतावनतः
समुदितमानवा धनमलोभवतो भवतः। अवनिविकीर्णमादिषत यस्य निरस्तमनः. समुदितमानबाधनमलो भवतो भवतः॥१॥
-नर्कुटकम् ( ७, १०) जिनसमुदायप्रणामः--
प्रणमत तं जिनवजमपारविसारिरजो
दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो
दलकमला ननाम हिमधामभया समरुक् ॥ २॥ -न'. सिद्धान्तस्तवनम्
त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो
ऽव सदनुमानसङ्गमन ! याततमोदयितः। शिवसुखसाधकं स्वभिदधत् सुधियां चरणं
वसदनुमानसं गमनयातत ! मोदयितः ! ॥३॥-नर्कु० श्रीगौरीसंस्तव:---
अधिगतगोधिका कनकरुक् तव 'गौयुचिता
कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती
कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ ४ ॥२०॥-न'०
.१स मुदिता इत्यपि पदच्छेदः समीचीनः । २"बृहतिका' इति सौभाग्यसागराः।