________________
श्राशोभनमुनीश्वरकृता
I. १९ श्रीमल्लिजिनस्तुतयः । अथ श्रीमल्लिनाथस्य स्तुतिः
नुदंस्तनुं प्रवितर 'मल्लिनाथ ! मे
प्रियङ्गुरोचिररुचिरोचितां वरम् । , विडम्बयन् वररुचिमण्डलोज्ज्वलः प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥१॥
-रुचिरा जिनपतीनां स्तुतिः
जवाद् गतं जगदवतो वपुर्व्यथा___ कदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत्
... कदम्बकैरवशतपत्रसम्पदम् ॥ २॥ -रुचिरा सिद्धान्तश्लाघनम्
स सम्पदं दिशतु जिनोत्तमागमः
शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपः
शमावहन्नतनुत मोहरोदिते ॥ ३ ॥ --रुचिरा श्रीकंपर्दिस्मरणम्
द्विपं गतो हृदि रमतां दमश्रिया ___ प्रभाति मे चकितहरिद्विपं नगे। वटाये कृतवसतिश्च यक्षराट प्रभातिमेचकितहरिद् विपन्नगे ॥ ४ ॥१९॥
_ --रुचिरा
१'प्रवितनु' इति पाठान्तरम् ।