________________
श्रीशोभनमुनीश्वरकृता श्रीअच्युतायाः स्तुतिः
रसितमुच्चतुरं गमनाय के
दिशतु काञ्चनकान्तिरिताऽच्युता'। धृतधनुःफलकासिशरा करै
रसितमुच्चतुरङ्गमनायकम् ॥ ४ ॥१४॥
-दुत०
1 १५ श्रीधर्मजिनस्तुतयः
अथ श्रीधर्मनाथाय प्रणामः
नमः श्रीधर्म ! निष्कर्मो-दयाय महितायते ! । मामरेन्द्रनागेन्द्र-दयायमहिताय ते ॥१॥
.
-अनुष्टुप्.
जिनसमूहस्य स्तुतिः
जीयाज्जिनौघो ध्वान्तान्तं, ततान लसमानया ।
भामण्डलत्विषा यः स. ततानलसमानया ॥ २ ॥ - अनु० भारत्याः संकीर्तना
भारति ! द्राग् जिनेन्द्राणां, नवनौरक्षतारिके।
संसाराम्भोनिधावस्मा--नवनौ रक्ष तारिके ! ॥ ३ ॥ --- अनु० श्रीप्रज्ञप्तिदेव्याः स्तुतिः
केकिस्था वः क्रियाच्छक्ति-करा लाभानयाचिता । 'प्रज्ञप्तिनूतनाम्भोज-करालाभा नयाचिता ॥४॥१५॥ -अनु०