________________
श्रीशोभनमुनीश्वरकृता
श्रीशान्तिदेव्याः स्तुतिःरक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत्
सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्री शान्ति देवी जगति जनयतात् कुण्डिका भाति यस्याः
सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥ ४ ॥१२॥ -लग्०
। १३ श्रीविमलजिनस्तुतयः ।
अथ श्रीविमलनाथाय प्रणाम:
अपापदमलं धनं शमितमानमामो हितं
नतामरसभासुरं विमलमालयाऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं 'विमल-मालयामोदितम् ॥ १॥
-पृथ्वी ( ८, ९) समस्तजिनेश्वराणा नुतिः
सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते सकलभारतीरा यताः । सदानवसुराजिता असमराजिनाभीरदाः
क्रियासुरुचितासु ते सकलभा रतीरायताः ॥ २॥ -पृथ्वी जिनप्रवचनप्रणाम:
सदा यतिगुरोरहो ! नमत मानवैरञ्चितं
मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं
मतं वरदमेन सारहितमायता भावतः॥ ३॥ -पृथ्वी