________________
श्रीशोभनमुनीश्वरकृता मानवीदेव्याः स्तुतिः
घनरुचिर्जयताद् भुवि 'मानवी
गुरुतराविहतामरसङ्गता । कृतकराऽस्त्रवरे फलपत्रभा
गुरुतराविह तामरसं गता ॥ ४ ॥१०॥-द्रुत०
। ११ श्रीश्रेयांसजिनस्तुतयः ।
अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम्
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः
कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् ‘श्रेयांसं न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ १ ॥
-हरिणी ( ६, ४, ७) जिनवराणां तल्लक्षणगर्भितस्तुति:
जिनवरततिर्जीवालीनामकारणवत्सला____ऽसमदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुपतया नृता तनोतु मतिं ममा
ऽसमदमहितामारादिष्टा समानवराजया ॥२॥ -हरिणी जिनागमस्य स्तुतिः
भवजलनिधिभ्राम्यजन्तुबजायतपोत ! हे
तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपतिं
तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ ३ ॥-हरिणी १.तराऽविहता. ' इत्यपि पाठः । २ 'प्रणमततमा' इत्यपि पाठः । ३ '०माराऽऽदिष्टासमानवरा जया' इत्यपि पाठः।