________________
श्रीशोभनमुनीश्वरकृता वज्राङ्कुश्याः स्तुतिः
'वज्राङ्कुश्य'कुशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न
स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्र
स्वायत्याडगेऽतनुमदवने हेऽमतारातिमत्ते !॥ ४॥८॥ --मन्दा०
९ श्रीसुविधिजिनस्तुतयः । अथ श्रीसुविधिनाथाय प्रार्थना
तवाभिवृद्धि ‘सुविधिविधेयात् __स भासुरालीनतपा दयावन् ! | यो योगिपतया प्रणतो नभःसत
सभासुरालीनतपादयाऽवन ॥ १ ॥ जिनेश्वरेभ्योऽभ्यर्थना
या जन्तुजाताय हितानि राजी
सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना
सा राजिनानामलपद्ममालम् ॥ २॥
--उपजातिः
--इन्द्रवज्रा
जिनवाणी
जिनेन्द्र ! भङ्गैः प्रसभं गभीरा
ऽऽशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् __ शुभाऽरतीशस्य तमस्तवेन ! ॥ ३ ॥ -उप०
१'शुभा रतीश.' इत्यपि पाठः।