________________
श्रीशोभनमुनीश्वरकृता
गान्धारीदेवीस्तुतिः
'गान्धारि !' वज्रमुसले जयतः समीर
पातालसत्कुवलयावलिनीलभे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध
पातालसत्कुवलया बलिनी लभेते ॥ ४ ॥ ६ ॥–वसन्त०
1. ७ श्रीसुपार्श्वजिनस्तुतयः
अथ श्रीसुपार्श्वजिनस्मरणम्
कृतनति कृतवान् यो जन्तुजातं निरस्त
स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः 'सुपार्श्व " स्मर परमदमाया मानवाधाय शस्तम् ॥ १॥
-मालिनी (८, ७) जिनराज्या ध्यानम्
बजतु जिनततिः सा गोचरे चित्तवृत्तेः
सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत्
सदमरसहिता या बोधिकामा नवानाम् ॥२॥ -मालिनी जिनमतप्रशंसा
दिशदुपशमसौख्यं संयतानां सदैवो
रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धिवासे
ऽरुजि नमत मुदाऽरं काममायामहारि ॥३॥--मालिनी