________________
स्तुतिचतुर्विशतिका
कालीदेव्यै प्रार्थना
नेगदाऽमानगदा मा
महो महोराजिराजितरसा तरसा। घनघनकाली काली
बतावतादूनदूनसंत्रासत्रा ॥ ४ ॥५॥—आर्या०
६ श्रीपद्मप्रभजिनस्तुतयः ।
अथ श्रीपद्मप्रभाय विनति:
पादद्वयी दलितपद्ममृदुः प्रमोद
मुन्मुद्रतामरसैदामलतान्तपात्री। ‘पाद्मप्रभी' प्रविदधातु सतां वितीर्णमुन्मुद्रतामरसदा मलतान्तपात्री ॥ १॥
-वसन्ततिलका समग्रजिनेश्वराणां स्तुतिः
सा मे मतिं वितनुताज्जिनपतिरस्त
मुद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल
मुद्रागतामरसभासुरमध्यगाद् याम् ॥ २॥ -वसन्त० श्रीसिद्धान्तस्वरूपम्
श्रान्तिच्छिदं जिनवरागममाश्रयार्थ
माराममानम लसन्तमसनमानाम् । धामाग्रिमं भवसरित्पतिसतुमस्त
माराममानमलसन्तमसंगमानाम् ॥ ३ ॥–वसन्त०
१'नगदामान.' इति पाठान्तरम् । २ 'सत्रा सत्रा' इत्यपि पदच्छेदः। ३ 'सदाऽऽमलता०' इत्यपि पाठः। ४'मुद्रा गताऽमरसभा सुरमध्यगाद्याम् ' इत्यपि संभवति।