________________
श्रीशोभनमुनीश्वरकृता
श्रीरोहिण्यै नम:
विशिखशङ्खजुषा धनुषाऽस्तसत्
सुरभिया ततनुन्नमहारिणा। परिगतां विशदामिह 'रोहिणीं।
सुरभियाततनुं नम हारिणा ॥ ४ ॥ ४ ॥ द्रुत०
५ श्रीसुमतिजिनस्तुतयः ।
अथ श्रीसुमतिनाथस्य स्तुतिः
मदमदनरहित ! नरहित !
'सुमते !' सुमतेन ! कनकतारेतारे ! । दमदमपालय ! पालय
दरादरातिक्षतिक्षपातः पातः ! ॥१॥-आर्यागीतिः समग्रजिनेश्वराणां विज्ञप्ति:
विधुतारा ! विधुताराः !
सदा सदाना ! जिना ! जिताघाताघाः !। तनुतापातनुतापा!
हितमाहितमानवनवविभवा ! विभवाः ! ॥२॥ --आर्या सर्वज्ञसिद्धान्तस्य स्मरणम्
मतिमति जिनराजि नरा
हितेहिते रुचितरुचि तमोहेऽमोहे । मतमतनूनं नूनं
स्मरास्मराधीरधीरसुमतः सुमतः ॥३॥ -आर्या०