________________
...
या.
..
श्रीशोभनमुनीश्वरकृता मानसीदेव्याः प्रार्थना
सितशकुनिगताऽऽशु मानसीद्धा--
ऽऽत्तततिमिरम्मदभासुराजिताशम्। वितरतु दधती पविं क्षतोद्यत्
तततिमिरं मदभासुराजिता शम् ॥ ४ ॥२॥ --पुष्पि०
१३ श्रीशम्भवजिनस्तुतयः
अथ श्रीशम्भवस्याभ्यर्थना
निर्भिन्नशत्रुभवभय !
शं भवकान्तारतार ! तार ! ममारम् । वितर त्रातजगत्रय ! 'शम्भव !' कान्तारतारतारममारम् ॥१॥
-आर्यागीतिः जिनवराणामाश्रयालक्ष्मी:
आश्रयतु तव प्रणतं
विभया परमा रमाऽरमानमदमरैः । स्तुत ! रहित ! जिनकदम्बक !
विभयापरमार ! मारमानमदमरैः ॥ २ ॥----आर्या० जिनमतस्य प्राधान्यम्---
जिनराज्या रचितं स्ता
दसमाननयानया नयायतमानम् । शिवशर्मणे मतं दध
दसमाननयानयानया यतमानम् ॥ ३ ॥ --आर्या०
१०मा सुरा०' इत्यपि पदच्छेदः । २' भासुराऽजिता' इत्यपि संभवति।