________________
स्तुतिचतुर्विशतिका श्रुतदेवतास्मरणम्
शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा
नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ
नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥ ४ ॥१॥-शार्दूल.
२ श्रीअजितजिनस्तुतयः ।
अथ अजितनाथप्रणामः
त'मजित'मभिनौमि यो विराजद
वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् ॥ १ ॥
-पुष्पिताग्रा जिनकदम्बकाभिनुतिः
स्तुत जिननिवहं तमर्तितप्ता
ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व
ध्वनदसुरामरवेणवः स्तुवन्ति ॥ २॥ -पुष्पि जिनमतविचार:
प्रवितर वसतिं त्रिलोकबन्धो !
गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथी
गमनययो ! गततान्ति मेऽपदेहे ॥ ३॥ -पुष्पि०
१'भ्रामरी भासिता' इत्यपि पदच्छेदः । २ 'गम | नय.' इत्यपि संभवति ।