________________
नमः परमात्मने। सुविहितपुरन्दरश्रीशोभनमुनिवर्यविहिता
॥ स्तुतिचतुविशतिका ॥
१ श्रीऋषभजिनस्तुतयः
अथ श्रीनाभिनन्दननुतिः
भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावली
रम्भासामज ! 'नाभि'नन्दन ! महानष्टापदाभासुरैः । भत्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः ॥ १॥
-शार्दूलविक्रीडितम् ( १२,७) समस्तजिनवराणां स्तुतिः
ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः। यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरा
दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ -शार्दूल० जिनप्रवचनप्रशंसा
शान्ति वस्तनुतान् मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै
रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली_ रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कतम्॥३॥ --शार्दूल.