SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २७४ હતુતિચતુર્વિશતિકા [ २३ श्रीपावनूता-नवा ये अर्थाः तेषां धात्री-धरणशीला । 'इह' अत्र । 'ततहततमःपातकापातकामा' तता:प्रसृता हताः तमश्च पातकं च अपातः-पतनरहितः कामश्च यया सा । अपातकामेति पृथग् वा विशेषणम् । नास्ति पातश्च कामश्च यस्यामिति । ' शास्त्री ' शास्त्रसम्बन्धिनी । 'शास्त्री' शासिका । 'नराणाम् । अथवा 'शास्त्रीशा' शास्त्रिणा ईशा-स्वामिनी । 'स्त्रीनराणां च (स्त्रीणां नराणां) 'हृदयहृत् । मनोहारिणी । 'अयशोरोधिका' अयशसां रोधिका-प्रचारविघातकारिका । 'अबाधिका' अबाधाजनिका। 'वा'शब्दश्चार्थे । 'आदेया' ग्राह्या । 'देयात्' वितीर्यात् । 'मुदं ' प्रमोदम् । 'ते' तुभ्यम् । 'मनुजमनु जरां' पुमांसं लक्षणीकृत्य जरां-वयोहानिम् । 'त्याजयन्ती मोचयन्ती । 'जयन्ती' जयमासादयन्ती। या असद्योगभित् सा जैनराजी वाक् मुदं ते देयात् इति सम्बन्धः ॥ ९१॥ अवचूरिः जिनराजानां संवन्धिनी जैनराजी वाय-वाणी ते-तुभ्यं मुदं देयात् । किंविशिष्टा ?। सद्यः-शीघ्र असन्तो ये योगा-मनोवाक्कायव्यापारास्तान भिनत्तीति सा । अमलानां गमानां लयो यत्र सा । इनाइभ्याः सूर्या वा तेषां राज्या नूता-स्तुता । नूतान-नवीनानान् दधातीति सा । इह-पृथिव्याम् । ततंविपुलं हतं-ध्वस्तं तमः-अज्ञानं पातकं-पाप्मा । अपातः-पतनरहितः कामश्च यया । यद्वा पृथय विशेषणम् । न विद्यते पातकामौ यस्याः सा। शास्त्री-शास्त्रसंबन्धिनी। नराणां शास्त्री-शासिका। यद्वा शास्त्रीणामीशा-स्वामिनी । स्त्रियो-नार्यो नरा-मास्तेषां हृदयं हरतीति । अयशो रुणद्धीति । न बाधते इत्यवाधिका । वा समुच्चये । आदेया-ग्राह्या। मनुज-मानवमनु-लक्ष्यीकृत्य जरां-विस्रसां त्याजयन्ती-विनाशयन्ती । जयन्ती केनाप्यपरिभूतत्वात् ॥ ९१ ॥ अन्वयः सद्यः अ-सत्-योग-भिद्, अमल-गम-लया, इन-राजी-नूता, नूत-अर्थ-धात्री, इह तत-हत-तमस्-पातका, अ-पात-कामा [अथवा तत-हत-तमस्-पातक-अपात-कामा], नराणां शास्त्री शास्त्री, ( नराणां ) हृदय-हृत् [अथवा शास्त्रिन्-इशा, स्त्री-नराणां हृदय-हृत् ], अ-यशस्-रोधिका, अ-बाधिका, आदेया, मनुजं अनु जरां त्याजयन्ती जयन्ती वा जैन-राजी वार ते मुदं ( सद्यः इह) देयात् । શબ્દાર્થ सद्यस्=सत्१२, ४४म. असत्म शुम, मनिष्ट, ट. योग=(१) व्यापार; (२) संसर्ग, भिडनारी. असद्योगभित्=(१) मशु व्यापारी नाश કરનારી; (૨) દુષ્ટ સાથેના સંસર્ગને નાશ કરનારી. वाय (मू० वाच् )=ail. लय-अयध्यान,मेतान. अमलगमलया निर्भर मासापानी सय छ रेभा मेवी. जैनराजी=MAA anती. इन=(१) धान, (२) सूर्य. राजी=lg.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy