________________
२६२ સ્તુતિચતુર્વિશતિકા
[२२ श्रीनाभ
સ્પષ્ટીકરણ ५च-विचार
આ શ્લેક ઉપરથી જોઈ શકાય છે કે દરેક તીર્થંકરને જન્મ રાજ-કુલમાં જ થાય છે અને તેઓ મહાસામ્રાજ્યને પણ તૃણવત ત્યાગ કરી આત્મ-સંયમ તરફ વલણ રાખે છે. વિશેષમાં આ લેકનું પ્રથમ ચરણ વાંચતાં જે જકારે જણાય છે, તે આ લેકની ખૂબીમાં વિશેષતા પ્રકાશિત કરે છે.
जिनवाणी-गौरवम्
कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा
मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ ८७ ॥
-शार्दूळ.
टीका कुर्वाणेति । 'कुर्वाणा' जनयन्ती । 'अणुपदार्थदर्शनवशात् ' अणवः-सूक्ष्माः ये पदार्थास्तेषां यद् दर्शनं व्यक्तीकरणं तद्वशात्-तदायत्तभावत्वात् । 'भास्वत्लभायाः' भानुदीप्तेः । 'त्रपां' लज्जाम् । इयमणूनपि पदार्थान् दर्शयति न त्वहं, अतो जितोऽस्मीत्येवंनिमित्तम् । 'आनत्या' प्रणामेन हेतुना । 'जनकृत्तमोहरत ! ' जनानां कृत्तः-छिन्नो मोहश्च रतं च येन असौ सम्बोध्यते । 'मे' मम । 'शस्ता' प्रशस्ता । ' अदरिद्रोहिका ' न दरिद्रा:तुच्छरूपाः ऊहा यस्याः सा । अत्र स्वार्थे कन् । ' अक्षोभ्या ' अचालनीया । 'तव' भवतः। 'भारती' वाक् । 'जिनपते !' जिननाथ ! । 'पोन्मादिना प्रकर्षेण उन्मादवताम् , दर्पासमञ्जसचेष्टानामित्यर्थः । 'वादिनां' परतीथिकानाम् । 'मानत्याजनकृत् ' मानस्य-स्तब्धतायाः त्याजनं-मोक्षणं करोति या सा । ' तमोहरतमा' अतिशयेन तमोहरा । 'ईश!' स्वामिन् ! । 'स्तात् । भवतु । ' अरिद्रोहिका ' अरीणां द्रोहकारिका । हे जिनपते ! तव भारती मे अरिद्रो. हिका स्तादित्यादि योगः ॥ ८७॥
१न चायं मेशब्दो युष्मच्छब्दविशेषादेशत्वात् सम्बोधनपदाग्रे कथं प्रयुक्तः ? 'सम्बोधनपदादग्रे न भवन्ति वसादयः' इत्याशङ्कनीयम् । मे इत्यस्य षष्ठ्यन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशत्वाभावादिति श्रीजयविजयाः। तत्त्वस्तु संबोधनमसत् इति तस्यासत्त्वेऽपि प्राचीनपदादू मे आदेशभावे न विरोधः ।