________________
२२ श्रीनेमिजिनस्तुतयः अथ श्रीनेमिनाथाय नमस्कारः
चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणाद्
अक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ॥
-शार्दूल.
टीका चिक्षेपेति । 'चिक्षेप ' निरस्तवान् । 'ऊर्जितराजकं । बलवद्वाजसमूहम् । 'रणमुखे। समरारम्भे । 'य' । 'लक्षसङ्ख्यं' लक्षाः संख्या यस्य तत्, अथवा अलक्षसंख्यं-अविभाव्यपरिमाणम् । 'क्षणात्' अक्षेपेण । 'अक्षामं ' समर्थम् । 'जन !" इति लोकस्यामन्त्रणम् । 'भासमान' विराजमानम् । अथवा जनैर्भासमानं जनभासमानम् । ' अहसं । अविद्यमानहासम् । 'राजीमतीतापदं । राजीमती-उग्रसेनराजपुत्री तस्या मनोरथविफलीकरणात् तापद-सन्तापदायिनम् । 'तम् । 'नेमि । नेमिनामधेयम् । 'नम' प्रणिपत । 'नम्रनितिकरं नम्राणां निति-सौख्यं करोतीति । ' चक्रे' कृतवान् । 'यदूनां ' यादवानाम् । 'च'। 'यः' । 'दक्षा' असंमूढाम् । 'अञ्जनभासमानमहसं' अञ्जनभया-कज्जलच्छायया समान-समं महः-तेजो यस्य तम् । 'राजी' सन्ततिम् । ' अतीतापदं' अतिक्रान्तविपदम् । य ऊर्जितराजकं चिक्षेप यश्च यदूनां राजी अतीतापदं चक्रे तं नेमि नमेति सम्बन्धः ॥ ८५ ॥
अवचूरिः यो नेमिजिनो लक्षसंख्यं-लक्षप्रमाणमूर्जितराजकं-बलवद्राजवृन्दं रणमुखे चिक्षेप-बभञ्ज। क्षणाद्वेगेन। राजकं किंभूतम् ? । अक्षाम-उपचितम् । हे जन ! तं नेमिं नम । किंभूतम् ? । भासमानंकान्तिकदम्बेन दीप्यमानं जनै समानं वा । अहसं-हास्यमुक्तम् । राजीमत्या-राजकन्यायाःप्रव्रज्याग्रहणेन मनोरथविफलीकरणात् तापदं पश्चात् तु मुक्तिसुखप्रदम् । नयाणां निवृति-मुक्तिं सुखं वा करोतीति । यश्च स्वामी यदूनां-यादवानां दक्षां राजीं-श्रेणिं अतीता-अतिक्रान्ता आपदो यया सा तामती तापदं चक्रे-कृतवान् । नेमिं किंभूतम् ? । अञ्जनस्य भया-कान्त्या समानं-तुल्यं महः-तेजो यस्य ॥४५॥
१ 'योऽलक्षसंख्यं ' इति पाठोऽपि न्याय्यः। २'जनभासमानः' इति पाठोऽपि समीचीनः।