________________
२१ श्रीनमिजिनस्तुतयः अथ श्रीनमिनाथस्य संकीर्तनम्
फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं
ममायासं चारो ! दितमद ! नमेऽषानि लपितः ।। नमद्रव्यश्रेणीभवभयभिदा हृद्यवचसाम् अमायासञ्चारोदितमदनमेघानिल ! पितः ! ॥ ८१॥
-शिखरिणी (६,११)
टीका स्फुरदिति । 'स्फुरद्विद्युत्कान्ते !! चश्चत्तडित्यभ!। 'प्रविकिर 'निरस्य । 'वितन्वन्ति' विस्तारयमाणानि । ' सततं ' सर्वदा । 'मम' मे। 'आयासं ' श्रमम् । चारो!' दर्शनीय ! । 'दितमद!' खण्डितदर्प।। 'नमे !' नमिजिन!।' अघानि' पापानि । 'लपितः । कपनशील!। 'नमद्भव्यश्रेणीभवभयमिदा ' नमन्त्याः भव्यश्रेण्याः भवभयं भिन्दन्ति यानि तेषाम् । 'हृद्यवचसा' हृदयंगमवचनानाम् । 'अमायासंचार !' न विद्यते मायासंचारः-शाठ्यस्य प्रचारो यस्मिन् स सम्बोध्यते । 'उदितमदनमेघानिल!' मदनो मेघ इव मदनमेघः, उदित:-उद्गतो यो मदनमेघस्तस्य विघट्टनहेतुत्वात् अनिल-नभस्वन् !। 'पितः!' जनकभूत !। हे नमे ! हृद्यवचसा लपितः! आयासं वितन्वन्ति अघानि मम प्रविकिरेति योगः ॥ ८१ ॥
अवचूरिः हे नमे ! नमिजिन ! ममायासं वितन्वन्ति अघानि-पापानि प्रविकिर-निरस्य । स्फुरन्ती या
तद्वत् कान्तिर्यस्य तस्य संबोधनम्।हे चारो!-दर्शनीय ।। हे दितमद !-छिन्नमद!हे लपितः!वादक !। केषाम् ।। हृद्यवचसाम् । कथंभूतानाम् ? । नमद्भव्यश्रेणीभवभयभिवाम् । मायाया-दम्भस्य संचारो यस्य स नैवंविधस्तस्य संबोधनम् । उदितः-उदयं प्राप्तो मदनः-कामः स एव मेघो-जीमूतस्तस्य संहारकत्वादनिलो-चात इव तस्य संबोधनम् । हे पितः!-जनक इव हितकारक ! ॥ ८१॥
अन्वयः (हे) स्फुरत्-विद्युत्-कान्ते ! चारो ! दित-मद ! नमत्-भव्य-श्रेणी-भव-भय-मिदा हृद्यवचसा लपितः ! अ-माया-सञ्चार ! उदित-मदन-मेघ-अनिल ! पितः ! नमे ! मम आयासं वितन्वन्ति अधानि सततं प्रविकिर ।