________________
૨૪૨
सिद्धान्त-स्तवनम् —
સ્તુતિચતુર્વિંશતિકા
त्वमवनताजिनोत्तमकृतान्त ! भवाद् विदुषो
Sव सदनुमानसङ्गमन ! याततमोदयितः । . शिवसुखसाधकं स्वभिदधत् सुधियां चरणं
वसदनुमानसं गमनयातत ! मोदयितः ! ॥ ७९ ॥
[ २० श्रीभुनिसुव्रत
टीका
त्वमिति । ‘त्वम् ' । अवनतान् प्रणतान् । 'जिनोत्तमकृतान्त !' तीर्थकृत्सिद्धान्त ! | 6 भवात् ' संसारात् । ' विदुषः ' सम्यग्ज्ञानवतः । ' अव ' रक्ष। 'सदनुमानसङ्गमन !' सत्विद्यमानं शोभनं वा अनुमान सङ्ग - मनं - अनुमानसङ्ग तिर्यस्य स आमन्त्रयते ।' याततमोदयितः ' यातं-अपगतं तमो येषां ते याततमसो - मुनयस्तेषां दयितः - इष्ट: । 'शिवसुखसाधकं ' मुक्तिसौ ख्यावर्जकम् ।' स्वभिदधत् ' सम्यक् अभिदधानम् । 'सुधियां' धीमताम् । 'चरणं' अनुष्ठानम् । ' वसत् ' ' तिष्ठत् । ' अनुमानसं ' मानसं लक्ष्यीकृत्य । 'गमनयातत !' गमाश्च नयाश्च गमनयास्तैः आतत - विस्तीर्ण ! | 'मोदयितः !' प्रमोदजनक ! | हे जिनोत्तमकृतान्त ! त्वं यातत - मोदयितः सुधियां अनुमानसं वसत् चरणं स्वभिदधत् भवात् अवनतानवेत्यन्वयः ॥ ७९ ॥
अवचूरिः
०
हे जिनोत्तमसमय ! त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात् - संसारात् । सत्-शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम् । त्वं किंविशिष्टः ? | यातं तमो येभ्यस्ते याततमसो - मुनयस्तेषां दयितः - अभीष्टः । मोक्षसुखप्रापकं चरणं चारित्रं स्वभिदधत् - स्वाख्यन् । किंभूतम् । सुधियां मानसमनु-लक्ष्यीकृत्य वसत् तिष्ठत् । हे गमनयातत ! गमाः- सदृशपाठाः नयाञ्च- नैगमादयस्तैरातत - विस्तीर्ण ! | हे मोदयितः ! - प्रमोदकारक ! ॥ ७९ ॥
શબ્દાર્થ
अन्वयः
(हे ) जिन - उत्तम - कृतान्त ! सत्-अनुमान-सङ्गमन ! गम-नय-आतत ! मोदयितः ! यात- तमस् - दयितः, सुधियां अनु- मानसं वसत्, शिव-सुख-साधकं चरणं सु-अभिदधत् त्वं अवनतान् विदुषः भवात् अव ।
अवनतान् ( मू० अवनत ) = प्रशुभ रेसाने. कृतान्त = सिद्धान्त...
जिनोत्तमकृतान्त ! = हे किनेश्वरना सिद्धान्त !
भवात् ( मू० भव ) = संसारथी. विदुषः ( मू० विद्वस् )=पएिडताने. अव ( धा० अव् ) = तुं रक्ष ४२.