SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ १९ श्रीमल्लिजिनस्तुतयः अथ श्रीमल्लिनाथस्य स्तुति: नुस्तनुं प्रवितनुं मल्लिनाथ ! मे प्रियङ्गुरोचिररुचिरोचितां वरम् । विडम्बयन् वररुचिमण्डलोज्ज्वलः प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥ ७३ ॥ - रुचिरा ( ४,९ ) टीका , नुदन्निति । ' नुदन् ' प्रेरयन् । ' तनुं ' मूर्तिम् । ' प्रवितनु ' प्रकर्षेण विस्तारय । ' मल्लिनाथ ! ' मल्लिस्वामिन् । 'मे' मह्यम् ।' प्रियङ्गुरोचिः ' श्यामद्युतिः । ' अरुचिरो - चितां' रुचिरां च उचितां च रुचिरोचितां, न रुचिरोचिताम् । ' वरं ' प्रार्थितार्थम् । 'विडम्बयन् ' हसन् । ' वररुचिमण्डलोज्ज्वलः ' वरं यत् रुचिमण्डलं- प्रभामण्डलं तेन उज्ज्वल:कान्तः । ' प्रियं ' प्रीतिकरम् । एतत् वरस्याम्बरस्य वा विशेषणम् । 'गुरो ।' महात्मन् ! । ' अचिररुचिरोचिताम्बरम्' अचिररुच्या विद्युता रोचितं - उद्भासितं यत् अम्बरं - आकाशं तत् । हे मल्लिनाथ ! तनुमरुचिरोचितां नुदन् वररुचिमण्डलोज्ज्वलः सन् अचिररुचिरोचिताम्बरं विडम्बयन् वरं मे प्रवितन्विति योगः ॥ ७३ ॥ अवचूरिः नुदन - क्षिपन् तनुं - शरीरम् । प्रियंगुः -श्यामो वृक्षविशेषस्तद्वद् रोचिर्यस्य । तनुं कथंभूताम् । रुचिराँ उचितां च न एवंविधम् । रुचिमण्डलं - भामण्डलं तेनोज्ज्वलः - कान्तः । अचिररुच्या रोचितं विद्युच्छोमितमम्बरम्-आकाशं विडम्बयन् । हे मल्ले (मल्लिनाथ ) ! हे गुरो ! अरुचिरोचितां तनुं नुदन् प्रियंगुवर्णः मामण्डलशोभितः विद्युत्साहितमाकाशं पराभवन् मम वरं प्रवितर ॥ ७३ ॥ अन्वयः (हे ) मल्लिनाथ ! गुरो ! अ-रुचिर- उचितां तनुं नुदन्, प्रियङ-रोचिः, वर-रुचि - मण्डल - उज्ज्वलः अचिर- रुचि - रोचित- अम्बरं बिडम्बयन (त्वं) मे प्रियं वरं प्रवितर । १ " प्रवितर ' इति पाठः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy