SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ । २०२ હતુતિચતુર્વિશતિકા [१७ -- सिद्धान्त-स्मरणम् स्मरत विगतमुद्रं जैनचन्द्रं चकासत् कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । . द्विरदमिव समुद्यदानमार्ग धुताधैकविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ॥ -मालिनी टीका स्मरतेति । ' स्मरत । ध्यायत । 'विगतमुद्रं' अपर्यन्तम् । 'जैनचन्द्रं जिनचन्द्रसंबन्धिनम् ।' चकासत्कविपदगमभङ्ग । चकासन्त:-शोभमानाः कविपदानि-कवियोग्यशब्दाः गमाः भङ्गाश्च यस्मिन् तम् । ' हेतुदन्तं ' हेतव एवं प्रतिपक्षभेद(क)त्वात् दन्तौ-विषाणौ यस्य तम् । 'कृतान्त आगमम् । 'द्विरदमिव द्विपमिव । समुद्यदानमार्ग' समुद्यन्-समुल्लसन् दानमार्गोज्ञानादीनां बितरणक्रमो यत्र तम् । 'धुताधैकविपदगं' अघं-पापं तदेवैका-अद्वितीया विपत् सैव दुःखफलदायकत्वात् अगो-विटपी, धुतो-निरस्तः अधैकविपदगो येन तम् । अभङ्ग' अजेयम् । 'हे' इत्यामन्त्रणम् । 'तुदन्तं ' पीडयन्तम् । 'कृतान्तं । अन्तकम् । अत्र द्विरदेन सह श्लेषः। सोऽपि विगतमुद्रः-अपेतमर्यादः स्वच्छन्दो भवति, तस्यापि पदगमभङ्गा:-पदमचारक्रमाश्चकासति, दन्ताश्च भवन्ति, दानमार्ग:-मदप्रवाहः समुदेति, सोऽपि अगं धुनोति अभङ्गश्च । कृतान्तं कृतमिव (१) नाशं विपक्षादिकं तुदति । तदेवं द्विरदमिव हे (भव्य-लोका !): जैनचन्द्रं कृतान्तं स्मरेत्यन्वयः॥ ६७॥ अवचूरिः __ हे लोकाः ! जिनचन्द्रसंबन्धिनं कृतान्तं यूयं स्मरत । हस्तिनमिव । किंभूतम् । विगतमुद्रगतप्रमाणम् । चकासन्तः-शोभमानाः कविपदानि-कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् । हेतुदन्तं हेतव एव दन्तौ विपक्षभेदकत्वाद विषाणौ यस्य तम् । कृतान्त-यमम् । तुदन्त-व्यथमानम् । समुद्यन्समलसन् दानमार्गो-ज्ञानादीनां वितरणक्रमो यस्मिन् । अधैकविपदः-पापैकविपद एवागा-वृक्षास्ते धुता येन । अभ-अजयम् । अत्र द्विरदेन श्लेषः। सोऽप्यपेतमर्यादः। तस्यापि पदगमनभाः शोभन्ते। दानमार्गो मदप्रवाहश्च स्यात् । स च कृतविनाशं च तुदति ॥ ६७ ॥ अन्वयः है (लोकाः)! द्विरदं इव विंगत-मुद्र, चकासत्-कवि-पद-गम-भङ्ग, हेतु-दन्तं समुद्यत्दान-मार्ग, धुत-अघ-एक-विपद्-अगं, अ-भङ्ग, कृतान्तं तुदन्तं जैनचन्द्रं कृतान्तं स्मरत ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy