________________
૧૯૦
રસ્તુતિચતુર્વિશતિકા
[१६ श्रीन्ति५-विद्यार
આ શાર્દૂલવિક્રીડિત વૃત્તમાં રચાયેલ પદ્ય શ્લેષાલંકારથી વધુ ઝળકી ઊઠે છે. એટલે કે શાન્તિનાથના શરીરને સારૂ વાપરેલાં ચારે વિશેષણ મેરૂ પર્વતને પણ લાગુ પડે છે, એ આ
કની ખૂબી છે. जिनवराणां विजयः
ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो___ राज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयीराज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥ ६२ ॥
-शार्दूल.
टीका ते इति । 'ते। 'जीयासुः' जयन्तु । 'अविद्विषः' विगतद्विषः। 'जिनवृषा जिनवृषभाः। 'मालां दधाना' स्रजं विभ्रतः। रजोराज्या' परागसन्तत्या। 'मेदुरपारिजातसुमनःसन्तानकान्तां' मेदुराः-पीवराः पारिजातसुमनसः सन्तानकानि-सन्तानकुसुमानि च तेषामन्ता-अवयवा यस्यां ताम् । 'चिता' सम्बद्धाः। 'की' प्रख्यात्या । 'कुन्दसमत्विषा' कुन्दसदृशदीप्त्या । 'ईषदपि ये' मनागपि ये । 'न' इति प्रतिषेधे । 'प्राप्तलोकत्रयीराज्याः' लब्धजगत्त्रयैश्वर्याः । 'मेदुः' मदं गतवन्तः । 'अपारिजातसुमनःसन्तानकान्ताञ्चिताः' अपगतारिसन्दोहाः ये सुमनसां-देवानां सन्तानाः- समूहाः तेषां कान्ताः-मुख्याः शिर मान्ता वा प्रणामपर्यन्ताः स्त्रियो वा तैरश्चिताःपूजिताः । ते जिनवृषभाः जीयासुः ये कीा चिताः प्राप्तलोकत्रयीराज्याः ईषदपि न मेदुरित्यन्वयः॥ ६२॥
अवचूरिः
ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुः-मदं चक्रुरिति संबन्धः। किंविशिष्टाः ? । अविद्विषः-शत्रुरहिताः, मालां-स्रजं धारयन्तः । मालां किंभूताम् ? । रजोराज्या-परागपूरेण मेदुराः पारिजातकुसुमानि संतानककुसुमानि च तेषामन्ता-अवयवा यस्यां ताम् । चिता-व्याप्ताः।
૧ આના લક્ષણ સારૂ જુઓ પ્રથમ પદ્યનું સ્પષ્ટીકરણ. ૨ જ્યાં શબ્દ કે વાક્યના એકથી વધારે અર્થો થતા હોય, ત્યાં આ અલંકાર છે એમ સમજવું. કહ્યું પણ છે કે
"पदैस्तैरेव भिन्नैर्वा, वाक्यं वत्त्येकमेव हि । अनेकमत्र यत्रासौ, 'श्लेष' इत्युच्यते यथा ॥”
-पास (४, १२८)