________________
સ્તુતિચતુર્વિશતિકા
[१3 श्रीवसमस्तजिनेश्वराणां नुतिः
सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते सकलमारतीरा यताः। . सदानवसुराजिता असमराजिनाभीरदा क्रियासुरुचितासु ते सकलभा रतीरायताः॥ ५० ॥
टीका - सदानवेति । ' सदानवसुराजिताः । सह दानवैवर्तन्त इति सदानवाच ते सुराश्च तैः अजिता-उपसर्गादिभिः अक्षोभिताः । 'असमराः' न विद्यते समरः-सङ्गामो येषां ते । 'जिनाः' तीर्थकृतः । 'भीरदाः' भियं रदन्तीति भीरदाः-मयभिदः । 'क्रियासु' कर्तव्येषु । 'रुचितासु' अभिप्रेतासु । 'ते' तव । 'सकलभारतीराः । सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तस्थितत्वात् तीराः-तीरभूताः, अथवा असकला-असदोषा भारतीः ईरयन्ति रान्ति वा ये ते तथा । ' यताः' निगृहीतेन्द्रियाः। 'सदानवसुराजिताः सदानंसविसर्जनं यद् वसु-द्रव्यं तेन पृथ्वीपालावस्थायां राजिताः-शोभिताः। 'असमराजिनामीरदाः। असमं राजन्त एवंशीला नाभी-नाभिः रदाश्च-दशनाश्च येषां ते। 'क्रियासुः' विधेयासुः। 'उचितासु ' योग्यासु । 'ते'। 'सकलभाः' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते । 'रती मुदः । आयताः' दीघोः । ते जिनाः उचितासु क्रियासु ते भारतीरायताः क्रियासुरिति योगः॥५०॥
अवचूरिः ते जिनास्ते-तव आयता-विपुला रती:-मुदः क्रियासु-कर्तव्येषु क्रियासुर-देयासुः । किंभूतासु । रुचितासु-इष्टासु । उचितासु-योग्यासु, पुण्यरूपास्वित्यर्थः। जिनाः किंविशिष्टाः ?। सदानवैः-सासुरैः सुरैरुपसर्गादिभिरजिताः । असमरा-अरणाः । भियं-भीति रदन्ति-भिन्वन्तीति भीरदाः । ‘रद विलेखने । सकलाः-सदोषाः संसारकृत्यरूपा ये भारास्तेषां पर्यन्ते स्थितत्वात् तीराः। यद्वा असदोषा भारतीरीरयन्ति रान्ति वा । यताः-प्रयत्नवन्तः। सदानं-सत्यागं यत् वसु-सुवर्ण तेन राजिताःशोभिताः । असमाः शोभमानाश्च नाभीरदा येषां ते । सकला-समस्ता भा-दीप्तिर्येषां येषु वा । यद्वा सह कलभया-रुचिररुचा वर्तन्ते ॥५०॥
अन्वयः ते स-दानव-सुर-अजिताः, अ-समराः, भी-रदाः, सकल-भाः (अथवा स-कल-भा), स-दान-वसु-राजिताः, (अथवा सदा नवसु राजिताः) अ-सम-राजिन्-नाभी-रदाः, सकलभार-तीराः ( सकल-भारती-राः, अ-सकल-भारती-ईराः वा ), यताः जिनाः ते आयताः रतीः उचितासु रुचितासु क्रियासु क्रियासुः ।