________________
७ श्रीसुपार्श्वजिनस्तुतयः अथ श्रीसुपार्श्वजिनस्मरणम्
कृतनति कृतवान् यो जन्तुजातं निरस्त
स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व स्मर परमदमाया मानवाधाय शस्तम् ॥ २५ ॥
-मालिनी (८, ७)
टीका कृतनतीति । कृतनति ' विहितप्रणामम् । ' कृतवान् ' विहितवान् । 'यो' 'जन्तुजातं ।। 'निरस्तस्मरपरमदमायामानबाधायशः' परे-शत्रवः स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च ते निरस्ता-अपनीता यस्य तत् तथा तम् । 'सुचिरं' प्रभूतकालम् । ' अविचलत्वं' एकाग्रता । 'चित्तवृत्तेः' मनसः । 'सुपार्श्व' सुपार्थनामानम् । 'स्मर' ध्याय । 'परमदमायाः' परमो दमो यस्याः । 'मानव'! मनुष्य! । 'आधाय' कृत्वा । 'शस्तं' शोभनम् । यः कृतनति जन्तुजातं इत्यंभूतं कृतवान् तं सुपार्थ हे मानव ! चित्तवृत्तेः अविचलत्वं आधाय स्मरेति संवन्धः ॥२५॥
अवचूरिः . या स्वामी जन्तुजातं (समूह) कृतप्रणामं विहितवान् । किंभूतम्। निरस्तानि कंदर्पवैरिमदमायामानपीडाऽयशांसि येन तम् । तं सुपार्श्व देवं हे मानव, नर ! त्वं स्मर । किं कृत्वा । निश्चलत्वमाधाय । कस्याः। चित्तवृत्तेर्मनोव्यापारस्य । सुचिरं प्रभूतकालम् । परमो मो यस्याः। शस्तं शोभनम् ॥ २५॥
अन्वयः
यः कृत-नति जन्तु-जातं निरस्त-स्मर-पर-मद-माया-मान-बाधा-अ-यशः कृतवान, तं शस्तं सुपार्य, (हे ) मानव ! परम-दमायाः चित्त-वृत्तेः अविचलत्वं सुचिरं आधाय स्मर ।