________________
८४
સ્તુતિચતુર્વિશતિકા
[५ श्रीमति५५-यमति -
विधुतारा, विधुताराः; सदा, सदा; नाजि, नाजि; ताघा, ताघाः;
तनुतापा, तनुतापा; हितमा, हितमा; नव, नव; विभवा, विभवाः. सर्वज्ञस्य सिद्धान्तस्य स्मरणम्
मतिमति जिनराजि नराऽऽहितेहिते रुचितरुचि तमोहेऽमोहे ।
मतमतनूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः॥ १९ ॥
-आर्या
टीका मतिमतीति । 'मतिमति' गर्भवासादिष्वप्यवस्थासु सातिशयमतियुक्ते । नित्ययोगादावयं मतुप्पत्ययः। जिनराजि' जिना:-केवलिनस्तेषु राजते यस्तस्मिन् । 'नराहितेहिते ' नराणां
आहितेहिते-कृतसमीहिते । रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य सम्बन्धिनी तस्मिन् । 'तपोहे । अज्ञानघातिनि । ' अमोहे ' मोहरहिते । 'मतं ' दर्शनम् । अतनूनं ' तनु च ऊनं च यन्न भवति तत् । 'नूनं' निश्चितम् । ' स्मर' ध्याय । 'अस्मराधीरधी' न स्मरेण अधीरा धीर्यस्य सः। असुमतः' प्राणिनः। 'सुमतः' प्राणिरक्षादिक्रियया सुष्ठ अभिमेतः। स्मरेति मध्यमैकवचनप्रयोगात् त्वमिति लभ्यते । तेन त्वं अस्मराधीरधीः असुमतः सुमतः सन् जिनराजि जिनेन्द्रविषये यन्मतं तत् स्मरेति सम्बन्धः ॥१९॥
अवचूरिः जिनराजि सर्वज्ञे मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते । नराणामाहितं पूरितमीहितं वाञ्छितं येन तस्मिन् । रुचिता परेषां प्रमोदकारित्वादीष्टा रुक कान्तिर्यस्य तस्मिन् । तमोहे अज्ञानघातिनि। अमोहे ममत्वमुक्ते । मतं किंभूतम् । तनु तुच्छमूनमपूर्णं च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । त्वं किंभूतः । न स्मरेणाधीरा धीर्यस्य सः । असुमतः प्राणिनः ! जातावकत्वम् । सुमतो रक्षाक्रियायां सुष्टु अभिप्रेतः ॥ १९ ॥
अन्वयः।
मति-मति, नर-आहित-ईहिते, रुचित-रुचि, तमस्-हे, अ-मोहे, जिन राजि अ-तनु-ऊनं मतं, अ-स्मर-अ-धीर-धीः, असु-मतः सु-मतः (त्वं ) नूनं स्मर।।
૧ આ ચમત્કૃતિને “લાટાનુપ્રાસ તરીકે ઓળખાવી શકાય.