________________
Correतुतयः ]
स्तुतिचतुर्विंशतिका जिनकदम्बकाभिनुतिः
स्तुत जिननिवहं तमर्तितप्ता
ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व
ध्वनदसुरामस्वेणव स्तुवन्ति ॥६॥
-पुष्पि
टीका स्तुत जिननिवहमिति । 'स्तुत ' प्रणुत । 'जिननिवहं' तीर्थकरनिकरम् । तं ' अर्तितप्तावनदसुरामरवेण' अा-पीडया तप्तानां शैत्याधायकतया साक्षात् अध्वनदः-मार्गनदो यः सुरामः-सुष्ठु रमणीयो रवः-शब्दस्तेन करणभूतेन । करणता चास्य प्रगायेति क्रियापेक्षया, स्तुतेतिक्रियया वा । 'वस्तुवन्ति' छन्दोजातिविशेषान् । 'यममरपतयः' यं भगवन्तं अमरपतयः-सुराधिपाः । ( 'प्रगाय' ) प्रकर्षण गीत्वा । 'पार्श्वधनदसुरामरेवणवः' पार्वेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमाना असुराणाममराणां च वेणव:-वंशा येषां ते तथोक्ताः । 'स्तुवन्ति । वन्दन्ते । अमरपतयो वस्तुवन्ति प्रगाय यं स्तुवन्ति तं जिननिवहं स्तुतेति सम्बन्धः ॥ ६ ॥
अवचूरिः हे लोकाः, तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अर्त्या पीडया तप्तानां शैत्याधायकतया साक्षाध्वनदो मार्गह्रदः सुरामः सुष्टु रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा। 'व्यत्यये लुग्वो ' इति रेफस्य लुक ॥६॥
अन्वयः
यं पार्श्व-धनत्-असुर-अमर-वेणवः अमर-पतयः अर्ति-तप्त-अध्वन्-जद-सुराम-रवेण वस्तुवन्ति ( गीतानि ) प्रगाय स्तुवन्ति, तं जिन-निवहं स्तुत ।
१ इदं सूत्रं श्रीसिद्धहेमशब्दानुशासने ( १।३।५६ ).