________________
श्रीभिक्षुमहाकाव्यम् ८३. यां रोदसी भेदभयङ्करी यद्, विपक्षवक्षांसिनिपातयन्तीं।
प्रयाणभम्भां स्फुटघोषगोंडुरां समन्तात् परिवादमान: ॥ ८४. कादम्बिनी सैन्यघटां घनिष्ठामुत्थापयन सङ्घहृदालिभिर्यः ।
महाबलं सर्वबलाधिनाथं, कुर्वन् प्रसारी गगनाङ्गणे च ॥ ८५. सुरेन्द्रकोदण्डधनुर्दधानो, दोधूयमानो विटपिध्वजं यः ।
भ्राम्यंस्तडित्तीव्रप्रचण्डदण्डं, झञ्झाभिघातैरभितोऽभिनिघ्नन् । ८६. मयूर केकारणतूरपूरैराक्रम्य तत्क्षोणिधरेन्द्रमौलिम् ।
धाराशरासार महाप्रहारैस्तपर्तु राज्यस्य बभञ्ज दुर्गम् ॥ ८७. सत्ताधिरूढः सलिलैः समस्तमुच्चं च नीचं प्रसमीकृतं कौ। __ शक्ति गतनामुदये जडानां, कीदृग् विवेको भवतीति शोच्यम् ॥ ८८. धरातलं व्याप्तजलं सलीलं, तन्वन् स्थलं नेत्रपरं नराणाम् ।
नदीनदानां पयसा प्रपूरैः, कूलानि भञ्जन्नकुलीनवच्च ॥ ८९. जिता प्रजा सा परिपालनीया, मही मधोना त्विति सम्प्रवीक्ष्य ।
प्रक्षाल्य सम्भाष्य चराचरांश्च, प्रवालरत्नैः कृतशाड्वला सा ॥ ९०. अदभ्रमभ्रं विरचय्य नजं, स्रोतःसरिद्रुतसुदूतिकाभिः । __ आसिन्धुसीमं प्रवितत्य सत्तां, सम्राडिवाऽस्थाच्च तपात्ययेऽयम् ॥
(नवभिः कुलकम्) ___ उस समय पार्श्वस्थ मुनियों का एक समूह अपने संघ के सदस्यों को एकत्रित कर यात्रा के लिए प्रस्थित हुआ, परन्तु बीच में ही निदाघ-ग्रीष्म ऋतु रूपी शत्रु राजा को पराजित करने के लिए, वर्षा रूपी भूपाल का शुभागमन हो गया। १. रोदसी-आकाश और पृथ्वी (दिवस्पृथिव्यौ रोदस्यौ रोदसी-(अभि०
२. कादम्बिनी-मेघमाला (कादम्बिनी मेघमाला-अभि० २१७९) ३. महाबल:--पवन (पृषदश्वो महाबल:-अभि० ४।१७३) ४. आसारः-तीव्र वर्षा (आसारो वेगवान् वर्षो—अभि० २।७९) ५. कौ इति भूमौ। ६. मघोना-इन्द्रेण । ७. शाड्वलः या शाद्वल:-हरीभरी (शाद्वल: शादहरिते- अभि० ४।२१) ८. अदभ्रं–प्रचुर (भूर्यदभ्रं पुरु स्फिरम्-अभि० ६।६२) ९. तपात्यये-आतप के मिट जाने पर ।