SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ जैन एवं इतर परम्परा में उपलब्ध मुद्राओं की सूची ...79 एकादशं तु सम्बुद्धा, सम्पुटं तु समादिशेत्। द्वादशं फरमित्युक्तो, त्रयोदशं तु गदस्तथा। चतुर्दशं खड्गनिर्दिष्टा, घटा पश्चादशस्तथा। षोडश: पाशमित्युक्तः, अङ्कशः सप्तदशः स्मृतः। अष्टादशं भद्रपीठं तु, ऊनविंशतिपीठकम्। विंशन्मयूरासन: प्रोक्तो, एकविंशस्तु पट्टिशम्।। एकलिङ्गं द्विविंशं तु, द्विलिङ्गो विंशसत्रिकम्। चतुर्विंशस्तथा माला, पञ्चविंश धनुस्तथा।। विंशत्वष्टाधिकं प्रोक्तं, नाराचे तु प्रकल्पिता। सप्ताविंशतिमित्याहुः, समलिङ्ग प्रवर्तिता।। अष्टाविंशस्तथा शूल:, ऊनविंशश्च मुद्गरः। तोमरं त्रिंशमित्याहुः एकत्रिंशं तु दक्षिणम्।। द्वात्रिंशत् तथा वक्र:, त्रयस्त्रिंशत् पदमुच्यते। चतुस्त्रिंशस्तथा कुम्भः, पञ्चत्रिंशे तु खखरम्।। कलशं षट्त्रिंशतिः प्रोक्तो, सप्तत्रिंशे तु मौशलम्। अष्टत्रिंशे तु पर्यङ्कः, ऊनचत्वारिंशत् पटहम्।। चत्वारिंशतिमित्याहुः, धर्मशङ्खमुद्राहृतम्। चत्वारिंशं स एकं च, शङ्कला परिकीर्तिता।। द्वितीया बहुमता प्रोक्ता, तृतीया समनोरथा। चतुर्थी जननी दृष्टा, प्रज्ञापारमिता मिता।। पञ्चमं पात्रमित्याहुः, सम्बुद्धा द्विपदोत्तमाः। तोरणं षष्ठमत्युक्तः, सप्तमं तु सुतोरणम्।। अष्टमं घोपनिर्दिष्टः, जपशब्दो नवमः पुनः। पञ्चाशद् भेरिमित्युक्ता, धर्मभेरि तु साधिका।। द्विपञ्चाशद् गजमित्याहुः, वरहस्तत्रिकस्तथा। चतुःपञ्चाशमिति ज्ञेयं, मुद्रा तद्गतचारिणी। पञ्चमं केतुमित्याहुः, षष्ठं चाशशरस्तथा। सप्तमं परशुनिर्दिष्टं, अष्टमं लोकपूजिता।। ऊनषष्टिस्तया ज्ञेया, भिण्डिपालं समासतः। पष्टिश्चैव भवेद्युक्ता, लाङ्गल तु समासतः।
SR No.006252
Book TitleMudra Prayog Ek Anusandhan Sanskriti Ke Aalok Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy