________________
80...मुद्रा योग एक अनुसंधान संस्कृति के आलोक में
एकषष्टिस्ततः पद्मः, द्विमुष्टिः वज्रमुच्यते। त्रिषष्टिः कथितं लोके, धर्मचक्रं प्रवर्तितम्॥ चतुःषष्टिस्तथा ज्ञेयः, पुण्डरीकं समासतः। पञ्चषष्टिस्तथा विन्द्याद्, वरदं मुद्रमुत्तमम्।। षट्षष्टि तथा वध्वा, वज्रमुद्रा तु कीर्तिता। सप्तषष्टिस्तथा लोके, कुन्तमाहुर्मनीषिणः।। अष्टषष्टिस्तथा कुर्याद्, वज्रमण्डलमुद्राहृतम्। ऊनसप्ततिमेवं स्यात्, शतघ्नेति प्रकीर्तिता।। ततः सप्ततिकं विन्द्यान्नादामुद्रं समासतः। एकसप्ततिमित्याहुर्विमानं मुद्रवरं शुभम्।। द्विसप्तत्या समासेन, स्यन्दनं स इहोच्यते। शयनं लोकनाथानां, त्रिसप्तान्या समासतः।। पञ्चसप्ततिराख्यातश्चतुः
सप्ततिकस्तथा। अर्धचन्द्रं च वीणा च उभौ मुद्रावृदाहृतौ।। षट्सप्ततिमं लोके, मुद्रा पद्मालया भवेत्। सप्तसप्ततिमः श्रेष्ठः, मुद्रा कुवलयोद्भवा।। अष्टसप्ततिमं मुद्रा, नमस्कारेति उदाहृता। नवमं नवतिसंख्या तु, उभौ मुद्रौ शुभोत्तमौ।। सम्पुटं यमलमुद्रा च, संख्या नवतिमं भवेत्। एकनवतिमित्याहुः, पुष्पमुद्रा उदाहृताः।। द्वितीया वलयमुद्रा तु, तृतीया धूपयेत् सदा। चतुर्था गन्धमुद्रा तु, पञ्चमी दीपना स्मृता।। षष्ठया साधनं विन्द्यात्, सप्तम्या आसने स्मृता। अष्टममाहाननं प्रोक्तं, नवमं तु विसर्जनम्।। शतपूर्णस्तथा विन्द्यात्, मुद्रां सर्वकर्मिकाम्। साधिकं शतमित्याहु, महामुद्रा इति स्मृताः।। उष्णीषं लोकनाथानां, चक्रवर्ति सदा गुरोः। तं मुद्रं प्रथमतः प्रोक्ता, द्वितीया सितमुद्भवा।। तृतीया मूलमुद्रा तु, मञ्जुघोषस्य दृश्यते। चतुर्थी धर्मकोशस्या, धर्ममुद्रेति लक्ष्यते।।