________________
जैन एवं इतर साहित्य में प्रतिपादित प्रायश्चित्त विधियाँ...213
गमनादेव नौभिः क्षुद्रप्लवैश्च वा। रजन्यां योजनं याने स्त्रीकथाकरणे तथा।।67।। स्वाध्याय च चतुःकालमकृते च प्रमादतः। योजनं च नदीमध्यगमने चरणक्रमात्।।68।। तटिनीदीर्घिकादीनां संचारादप्रतिक्रमे। मण्डलीवञ्चने चैव साधूनाम(भि) निमन्त्रणे।।6।। एतेषु सर्वदोषेषु धर्मः पापविशुद्धिकृत्। प्राशुकानां च कायस्य भक्षणे लघु शोधनम्।।70।। अधिकां विकृतिं भुक्त्वा निर्मदेन विशुद्ध्यति। ___ पञ्चेन्द्रियस्यैकस्यापि दर्पण प्रतिघातने।।1।। आदेय (?) न परं शुद्धिर्महापाापादुदाहृता। पञ्चेन्द्रियाः पीडिता वा यावन्तः स्युः सजीविताः।।72।। तेषु प्रत्येकमाधेयं भद्रं पापस्य हानये। पुरुषस्त्रीविघाते च प्रत्येकं शुद्धिरन्तिमात्।।73।। मृषावादे तथा स्तेये तथा चैव परिग्रहे। भग्ने जघन्यतः कार्ये प्रत्येकं च सुभोजनम्।।74।। मध्यभङ्गे तथैकानं मुक्तमुत्कृष्टभङ्गके। दद्भङ्गे त्रयाणां च शोधने ग्राह्यमिष्यते।।75।। स्वप्ने भने त्रयाणां च कायोत्सर्गा उदाहृताः। चतुःप्रमाणैः प्रत्येक सचतुर्विंशतिस्तवैः।।76।। मैथुनस्य काङ्क्षणे स्याच्छुद्धिः स्यादुत्तमात्पर। कृते च करसंभोगे सुखं शोधनमुत्तमम्।।7।। तस्मिंश्च बहुधा क्लुप्ते कार्यमादेयमञ्जसा। स्त्रिया चैव तिरश्चा वा षण्ढेन पुरुषेण वा।।78।। मैथुने भाषिते क्लुप्ते प्रत्येकं मूलमिष्यते। स्त्रीणां स्तनादि स्पर्शे च विधेयं धातुहृत्परम्।।79।। वस्त्रस्पर्शे च नारीणां यतिधर्ममुदाहरेत्। कैश्चिदष्टोत्तरशतं मन्त्रजाप इह स्मृतः।।80।। दर्पण ब्रह्मचर्यस्य भङ्गे ग्राह्यमुदाहृतम्। स्वप्नेऽपि व्रतभङ्गेऽत्र कायोत्सर्गे समाचरेत्।।81।। समन्त्रयुक्तसंध्यातः सचतुर्विंशतिस्तवम्। लिप्तपात्रस्थापने च शुष्कसन्निधिभोजने।।82।। प्रत्येकमुपवासेन शुद्धिरस्मादुदाहृता। दोरके मुखवस्त्रे वा पात्रे तृप्तिकरादिके।।83।। निशि लिप्तस्थिते कार्यमुपवासेन शोधनम्। वैकृते सन्निधौ भुक्ते पुण्यमाहुर्विशोधनम्।।84।। दिवा स्थितं दिवा भुक्तमिति भङ्गचतुष्टयम्। आधे भङ्गं सुखं प्रोक्तं शेषभङ्गत्रयेऽष्टमम्।।85।। शुष्कसन्निधिरक्षायां मध्याह्नः स्याद्विशोधनम्। तस्मिन्नार्दै स्थापिते च निःपापात्स्यादपापता।।86।।
केचिदाहुः शुद्धयेऽत्र पूर्वाह्न मुनिपुङ्गवाः। आधाकर्माशने मुक्तं शान्तं पूत्यशने तथा।।87।। आत्मक्रीतपरक्रीतभागे कामनमिष्यते। उद्देशिकाशने