________________
जैन एवं इतर साहित्य में प्रतिपादित प्रायश्चित्त विधियाँ...207 क्वचित्। असंख्यद्वीन्द्रियध्वंसे पुण्यद्वयमुदाहृतम्।।23।। असंख्यत्रीन्द्रियध्वंसे शुद्धयै पुण्यत्रयं विदुः। असंख्यचतुरक्षाणां ध्वंसे पुण्यचतुष्टयम्।।24।। असंख्यासंज्ञिनां ध्वंसे शोधनं पुण्यपञ्चकम्। षट्पदीबहुनाशे तु कर्तव्यं पुण्यपञ्चकम्।।25।। __पञ्चेन्द्रियाणां संघट्टे प्राणाधारे विशुद्धिकृत्। तेषामागाढसंतापे कामघ्नं पापनाशनम्।।26।। तेषां च गाढसंतापे निःपापः पापखण्डनः। विघातने पुनः पुण्यं बहूनां च विघातने।।27।। तेषां तत्संख्यया पुण्यकारणानि विनिर्दिशेत्। जीवघाते प्रमादेन प्रायश्चित्तं न कोपतः।।28।। अमार्जिताङ्गकण्डूयाकरणे निर्मदं वदेत्। भित्तिस्तम्भासनादौ च संस्पृष्टे मार्जनोज्झिते।।29।। युवतीवस्त्रसंघट्टे कायभूम्यप्रमार्जने। एतेषु सर्वदोषेषु विरसं शोधनं विदुः।।30।। आर्द्रामलकमाने च पृथिवीकायमर्दने। चुलुमात्रसचित्ताम्बु पुरःपाश्चात्यकर्मसु।।31।। द्विक्रोशमात्रमुडुपनौभ्यां प्रतरणेऽम्बुनः। नाभिमात्राम्बुसंस्पर्श बह्वग्निस्पर्शने तथा।।32।। भक्तस्त्रीदेशराट्वार्ताकरणे क्रोधमानयोः मायायाश्च संविधाने प्रचुरे च प्रमादतः।।33।। शब्द्या (?) दानप्रमाणायां तथा सन्निधिभोजने। तथा च कालवेलायां जलपानेऽघ्रिधावने।।34।। एतेषु सर्वदोषेषु कामघ्नं शोधनं परम्। पूर्वार्धामथो पापशोधनं परिकीर्त्यते।।35।। उपयोगस्याकरणे गोचरस्याप्रतिक्रमे। तयोरविधिना कृत्ये नद्याः संतरणे तथा।।36।। अमार्जने क्रमणयोहिप्रत्यक्षमेव च। करणे च पुरीषादेर्भाषणे गृहिभाषया।।37।।।
तथार्हत्प्रतिमापार्श्वे कफादिपरिमोचने। मात्रादिधारणे चैव ग्लानादीनामपालने।।38।। श्राद्धेभ्यः सहवासिभ्यः कारिते चाङ्गमर्दने। अकालसंवाहनायां शय्याद्यप्रतिलेखने।।3।। द्वारप्रवेशे निर्याणे तद्भूम्यप्रतिलेखने। स्वाध्यायेऽप्यकृते चैव जलानग्रहणे तथा।।40।। पारणा मुखवस्त्रं च विनाभुक्तानपानयोः। गुरोरग्रेप्यनालोच्य प्राशने भक्तपानयोः।।1।। अकाले च मलोत्सर्गभूमौ गमन एव च। अनाचाराचरणे च चैत्यसाध्वोरवन्दने।।42।। गृहस्थासनभोगे च ईर्यापथ्यप्रतिक्रमे। मुखवस्त्रेण सच्चित्तवस्तुग्रहण एव च।।43।। क्षणमात्रं पदत्राणवाहनादिपरिग्रहे। अचक्षुर्विषये मार्गे परिभ्रमण एव वा।।44।। पात्राद्युपधिवृन्देभ्यो बीजादेरपसारणे। एतेषु शुद्धिविषये कालातिक्रम