________________
जैन एवं इतर साहित्य में प्रतिपादित प्रायश्चित्त विधियाँ...203 पिहिते मिश्रेऽनन्तरे च तथाविधः।।41।। शङ्कायां दोषयुक्तायां कालातिक्रम इष्यते। इतरस्थापिते सूक्ष्मे सरजस्के तथा विधिः।।42।। स्निग्धे च प्रक्षिते मिश्रे स्थापिते च परम्परम्। परिष्ठापनिकायां च विरसं प्राहुरुत्तमाः।।43।। एतेषु सर्वदोषेषु विस्मृतेरप्रतिक्रमात्। पिण्डीभूतेषु कर्तव्यं यतिभिर्धर्ममीहितैः।।44।।
धावने लङ्घने चैव संघर्षे सत्वरं गतौ। क्रीडायां कुहनायां च वान्ते गीते स्मितेऽधिके।।45।। परुषे भाषणे चैव प्राणिनां रुत एव च। स्यात्प्रायश्चित्तमेतेषु पथ्यं गीतार्थभाषितम्।।46।। त्रिविधस्योपभ्रंशे विस्मृते प्रतिलेखने। क्रमादमोपने श्रेष्ठं पूर्वार्धं च सुभोजनम्।।47।। एतत्रयस्याकरणे कामघ्नं प्राहुरादिमाः। गृहीते शोषिते चैव (सु) धौते चोपमण्डले।।48।। दाने भोगे तथाऽदाने क्रमात्तप उदीरितम्। प्राणाधारश्च कामघ्नः पथ्यः पापहरः स्मृतः।।4।। सर्वेषां चैव करणे पुण्यं प्राहुर्मुनीश्वराः। पतने मुखवस्त्रस्य तथा धर्मध्वजस्य च।।50।। विरमश्च तथा पथ्यो नाशे पथ्यो हितस्तयोः। अनाध्याने च कालस्य परिभोगे च विस्मृते।।51।। आये निःस्नेहमादिष्टं द्वितीये धर्म एव च। अविधेरशनादीनां कालातिक्रम इष्यते।।52।। असंवृतौ च प्राणस्य त्रिभूम्यप्रतिलेखने। निर्मदं कथयन्तीह सर्वस्यासंवृतावथ।।53।। अनादाने तथा भङ्गे कालातिक्रममादिशेत्। तपसां प्रतिमानां चाभिग्रहाणां समानतः।।54।। पक्षे चैव चतुर्मासे वत्सरे चाप्रतिक्रमे। क्रमात्रिपादकामघ्नचतुःपादाः प्रकीर्तिताः।।55।। कायोत्सर्गे वन्दने च तथा शक्रस्तवेपि च। उत्सारिते वेगकृते भग्ने ज्ञेयं क्रमात्तपः।।56।। पूतमध्याह्नपादाख्यं सर्वेषु सजलं पुनः। चरित्राचार आख्यातं प्रायश्चित्तं तपोमयम्।।57।।
(आचार दिनकर भा. 2, पृ. 244-246) • आचारदिनकर में वर्णित विधि के अनुसार एकेन्द्रिय जीवों का संस्पर्श होने पर नीवि, उन्हें सामान्य पीड़ा देने पर पुरिमड्ढ, उन जीवों को महासंतापित करने पर एकासना तथा उन्हें मारणान्तिक कष्ट देने पर आयंबिल का प्रायश्चित्त आता है।
. विकलेन्द्रिय (द्वीन्द्रिय, त्रीन्द्रिय, चउरिन्द्रिय) एवं अनंतकाय वनस्पति का संस्पर्श होने पर पुरिमड्ढ, उन जीवों को सामान्य पीड़ित करने पर नीवि,