________________
202...प्रायश्चित्त विधि का शास्त्रीय पर्यवेक्षण
दोषाः पिण्डे षोडश स्युरुद्गमे चातिदारुणाः। षोडशोत्पादनायां स्युरेषणायां दशैव ते।।20।। पञ्चग्रासैषणायां च चत्वारिंशच्च सप्त च। एवं पिण्डे सर्वदोषास्तत्प्रायश्चित्तमुच्यते।।21।। आधाकर्मों 1 देशिकं 2 च प्रतिकर्म 3 विमिश्रकम् 4। स्थापना 5 प्राभृतं 6 चैव प्रादुःकरणमेव च 71122।। क्रीतं 8 तथा च प्रामित्यं 9 परिवर्तित 10 मेव च। अभ्याहृतं 11 तथोद्भिन्नं 12 मालापहृतमेव च 13।।23।। आच्छेद्य 14 मनुसृष्टं च 15 तथा चाध्यवपूरकम् 16। पिण्डोद्गमे षोडशैतेदोषा धीरैरुदाहृताः।।24।। धात्री 1 दूती 2 निमित्तं च 3 जीविका च 4 वनीपकः 5। चिकित्सा 6 क्रोध 7 मानौ 8 च माया 9 लोभौ 10 च संस्तवः 11।।25।। विद्या 12 मन्त्र 13 स्तथा चूर्ण 14 योगो 15 वैमूलकर्म च 16। उत्पादनायां पिण्डस्य दोषाः स्युः षोडशाप्यमी।।26।। शङ्कितं 1 प्रक्षितं 2 चैव निक्षिप्तं 3 पिहितं 4 तथा। संहृतं 5 पादको 6 मिश्रे 7 ततश्चापरिमाणकम् 8।।27।। लिप्तं 9 चैव परिभ्रष्टं 10 दश दोषा उदाहृताः। गृहिसाधूभयभवाः पञ्चाथ ग्रासजाः पुरः।।28।। संयोजना 1 प्रमाणं च 2 तथाङ्गारश्च 3 धूमकः 4। कारणं 5 सप्तचत्वारिंशद्दोषाः पिण्डजा अमी।।29।। एतेषां च यथायुक्त्या प्रायश्चित्तमुदाहृतम्। एषणोत्पादना ग्रासोद्गमदोषाः समाः क्वचित्।।30।।
कर्मणोद्देशिके चैव तथा च परिवर्तिते। पाखण्डैः स्वग्रहैर्मिौर्बादरप्राभृतेऽपि च।।31।। सत्प्रत्यवायाहृते च पिण्डे लोभेन चाहते। प्रत्येकानन्तवत्पाद्यैर्निक्षिप्ते पिण्डितेऽथ वा।।32।। संहृते च तथोन्मिश्रे संयोगाङ्गारयोरपि। द्विविधे च निमित्ते च प्रायश्चित्तं गुरुः परम्।।33।। कर्मण्यौद्देशिके मिश्रे धात्र्यादौ च प्रकाशने। पुरः पश्चात्संस्तवे च कुत्सिते कर्मणि स्फुटम्।।34।। संसक्ते पुनरालिप्ते करे पात्रे च कुत्सितैः। परीते चैव निक्षिप्ते पिहिते संहृतेपि च।।35।। मिश्रिते कुत्सितैरेवमतिमाने प्रमाणके। धूमे दुष्कारणे चैव प्रायश्चित्तं च धातुहृत्।।36।। कृतेऽध्युपकृते पूतौ परम्परगते तथा। अदनान्ते तथा मित्रेऽनन्तरानन्तरागते।।37।। एवमादिषु कर्तव्यमेकभक्तमघापहम्। ओघोपकरणात्पूतौ स्थापिते प्राभृतेपि च।।38।। उद्देशिके लोकपरे प्रमेये परिवर्तिके। परभावे तथाक्रीते स्वग्रामादाहृतेपि च।।39।। मालोपहृतके चादौ जघन्ये दर्दरादिके। चिकित्सायां संस्तवे च सूक्ष्मे च प्रक्षिते त्रिके।।40।। दायकोपिहिते चैव प्रत्येकं च परम्परान्। स्थापिते