________________
आगम
(०५)
प्रत
सूत्रांक
[४३७
४६८]
गाथा
दीप
अनुक्रम
[५२९
•५६२]
श्रीभगः
लघुपुत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा
नामेव तदणूनां ग्रहणं स्यादत्तोऽभिधीयते - अनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्तननिर्वर्त्तनाकालोऽनन्तगुणः, यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं स्यात्, अल्पतरप्रदेशाचैते, ततस्तद्ग्रहणेऽप्येकदा अल्प एवाणवो गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्त्यौदारिकशरीरिणामेव तद्ग्रहणादतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरावर्त्तना कालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलास्सूक्ष्मा बहुप्रदेशिकाश्चेति तेषा - मल्पकालेन ग्रहणं सम्भवति तथाप्यपर्याप्तकावस्थायां तेषामग्रहणात् पर्यातकावस्थायामप्यौदारिकशरीरपुद्गलापेक्षया तेपामल्पी - | यसामेव ग्रहणात् न शीघ्रं तद्ग्रहणमित्यौदारिकपुद्गलपरावर्त्तनिर्वर्त्तनाकालादनन्तगुणता आनप्राणपुद्गलपरावर्त्तनिर्वर्त्तनाकालस्येति ततो मनःपुद्गलपरावर्त्तनिर्व्वर्त्तनाकालोऽनन्तगुणः कथं १, यद्यप्यानप्राणपुद्गलेभ्यो मनपुद्गलाः सूक्ष्मा बहुप्रदेशाथेत्यल्पकालेन तेषां ग्रहणं स्यात् तथाप्येकेन्द्रियादिकायस्थितिवशान् मनसविरेण लाभात् मानसपुद्गलपरिवत्र्तो बहुकालसाध्य इत्यनन्तगुणः, ततोऽपि वाक्पुद्गलपरावर्त्तनिर्वर्त्तनाकालोऽनन्तगुणः कथं १, यद्यपि मनसः सकाशात् भाषा शीघ्रतरं लभ्यते, द्वीन्द्रि याद्यवस्थायां च स्यात्, तथापि मनोद्रव्येभ्योऽपि भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात् ततोऽनन्तगुणो वाक्पुद् गलपरावर्त्तनिर्वर्त्तनाकाल इति, ततोऽपि वैक्रियपुद्गलपरावर्त्तनिर्वर्त्तनाकालोऽनन्तगुणो, वैयिशरीरस्यातिबहुकाललभ्यत्वादिति । | पुद्गलपरावर्त्तानामेवाल्पबहुत्वमाह - 'एएसि णमित्यादि (सू. ४४७) सर्वस्तोका वैक्रियपुद्गलपरावर्त्ता बहुतमकाल निर्वर्त्तनीयस्वात् तेषां ततोऽनन्तगुणा बाविषयाः, अल्पतरकालनिर्वर्त्यत्वाद् एवं पूर्वोक्तयुक्त्या बहुतराः क्रमेणान्येऽपि वाच्या इति । द्वादशशते चतुर्थः ॥
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~69~
१२ श० ४ उद्देशः