________________
आगम
(०५)
प्रत सूत्रांक
[४३७
४६८]
गाथा
दीप
अनुक्रम [५२९
•५६२]
श्रीभग०
लघुवृत्तौ
JOJO HIGJIGSCJİC
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८ ] + गाथा
'पाणाइवाए 'त्ति (सू. ४४८ ) प्राणातिपातजनितं चारित्रमोहनीयकम्र्मोपचारात् प्राणातिपात एव, एवमुत्तरत्रापि तस्य च पुद्गलत्वोपचारात् प्राणातिपात एव, एवमुत्तरत्रापिं तस्य च पुद्गलरूपत्वात् वर्णादयः स्युरत उक्तम् 'पंचवण्णे'त्ति, आह च “पंच रस पंचवण्णेहिं परिणयं दुविहगंधचउफासं । दवियमणंतपदेसं सिद्धेहिं अनंतगुणहीणं ॥१॥ "ति 'चउफास 'ति स्निग्ध १ रूक्ष २ शीत ३ उष्णाख्याः ४ स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्गलानां स्युः, सूक्ष्मपरिणामं च कर्मेति, 'कोहि 'ति क्रोध इति सामान्यनाम, कोपादयश्च तद्विशेषाः, तत्र कोपः - क्रोधोदयात् स्वभावाच्चलनमात्रम्, रोपः - क्रोधस्यैवानुबन्धो दोषः - आत्मनः परस्य वा दूपणमेतच्च क्रोधकार्यं द्वेषो वा अप्रीतिमात्रं, अक्षमा- परकृताऽपराधस्य असहनं सवलनो-मुहुः २ क्रोधाग्निना ज्वलनं, कलहो| मिथोऽसमञ्जसभाषणं चाण्डिक्थं रौद्राकारकरणं, भण्डनं दण्डादिभिर्युद्धं विवादो विरुद्धवचनानि १०, एतानि क्रोधकार्याण्येव, क्रोधैकार्था वा एते शब्दाः मान इति सामान्यनाम, मदादयस्तु तद्विशेषाः, तत्र मदो हर्पमात्रं दर्पो दप्तता, स्तम्भो - अनम्रता गर्व:- शौण्डीर्य 'अत्तक्कोसे 'ति आत्मनः परेभ्यः सकाशात् गुणेन उत्कर्षणं - उत्कृष्टताभिधानं, परपरिवादः परेषामप्यवर्णवदनं, परपरिपातो वा गुणेभ्यः परिपातनमिति, 'उक्को से' त्ति उत्कर्षणं - उत्कृष्टताकरणं आत्मनः परस्य वा क्रियया उत्क्रोशनं वा - प्रकाशनमभिमानात् स्वसमृद्ध्यादेर्वा 'अवक्कोसे'त्ति अपकर्षणमत्रकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति, अप्रकाशो वाऽभिमानादेवेति, 'उष्णए'ति उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभिमानादुन्नतं उच्छिन्नो वा नयो-नी तिरमिमानादेवोन्नयो, नयाभाव इत्यर्थः प्रणतस्य मदानुप्रवेशादुनमन मुन्नामः, 'दुन्नामे' त्ति महद्दुष्टं नमनं दुर्भाम इति १२, स्तम्भादीनि मानकार्याणीति मानवाचका एते एकार्थाः। 'माय'त्ति सामान्यं नाम, उपध्यादयस्तद्भेदाः, तत्र 'उबहि' त्ति उपधीयते येना
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~70~
११२० ५ उद्देशः
॥१८२॥