________________
आगम
(०५)
प्रत सूत्रांक
[४०८
४३६]
गाथा
दीप
अनुक्रम
[४९४५२८]
श्रीभग लघुवृत्तौ
PİCİCİCİLGICCJK:
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [११], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ४०८ ४३६] + गाथा
एकत्र पारणके प्राचीदिकफलान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामिति दिक्चक्रवालेन यत्र तपसि पारणककरणं तद्दिचक्रबालतपः कर्म्म उच्यते तेन तपःकर्मणेति, 'वकलवत्थ'त्ति वल्कलं वस्त्रं निवसितं येन स वल्कलवस्त्रनिवसितः, 'किढिणसंका| इय'त्ति 'किढिण'त्ति वंशमयतापसभाजनविशेषः तस्य सांकायिकं भारोद्वहन यन्त्रं, 'पोक्खेति' उदकेन प्रोक्षति - सिञ्चति 'पत्था'त्ति प्रस्थाने - परलोकसाधनमार्गे फलाद्याहरणार्थं गमने वा प्रतिस्थितं-प्रवृत्तं, 'दब्भे य' चि समूलान् 'कुसे' ति निर्मूलान् 'समि| हाओ' ति समिधः - काष्ठिकाः 'पत्तामोडं 'ति तरुशाखामोटितपत्राणि 'वेदिं वन्दे 'त्ति वेदिकां देवार्चनस्थानं वर्द्धयति, प्रमाजयतीत्यर्थः, 'उवलेवण'त्ति उपलेपनं गोमयादिना संमज्जनं जलेन सम्मार्जनं शोधनं वा, 'दब्भ'ति दर्भकलशो हस्तगतो यस्य स तथा, जलमज्जनं देहशुद्धिमात्रं, जलक्रीडां जलाभिषेकं जलक्षरणं 'आयंते'चि जलस्पर्शात् 'चोक्खे'ति अशुचिमलापगमात् 'देवयपितिकयकज्ज'ति देवतानां पितॄणां च कृतं कार्यं जलाञ्जलिदानादिकं येन स तथा, 'सरएणं'ति शरकेन-निर्मन्थकाष्ठेन अरणिनामानं काष्ठं 'महेइ'त्ति मध्नाति -घर्षयति ।। ' अग्गिस्स दाहिणपासे' त्यादि (६९।।) प्राकृतः सार्द्धश्लोकः सूत्रपाठसिद्धोऽस्ति, तत्र 'सत्तंगाई' ति सप्ताङ्गानि समादधति-सन्निधापयति 'तं'ति कथने तद्यथाशब्दो गृह्यते, 'सक' ति सकथां तत्समयप्रसिद्रोपकरणविशेषः १ वल्कलं २ स्थानं अग्निपात्रं ३ शय्याभाण्डं शय्योपकरणं ४ कमण्डलु ५ दण्डदारु-दण्डकः ६ तथाऽऽत्मानः ७ 'अहेताई' ति अथैतानि सप्त, 'चरुं साहरे'ति चरुः - पात्र विशेषः, तत्र पच्यमानद्रव्यमपि चरुरेव तं चरुं, वलिमित्यर्थः, साधयति रन्धयतीत्यर्थः,'बलिविस्संदेव' त्ति बलिना वैश्वदेवं वैश्वानरं पूजयतीत्यर्थः ॥ 'एगविहविहाण' ति ( ० ४१७ एकेन विधिना - प्रकारेण विधानं व्यवस्थानं येषां ते तथा सर्वेषां वृत्तत्वात्, 'बित्थार ओऽणेग' ति द्विगुणविस्तारत्वात् तेषामिति ।। 'सवन्नाई' ति
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~47~
११ श०
९ उद्दे.