________________
आगम
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [९], वर्ग - अंतर्-शतक , उद्देशक [१-३४], मूलं [३६०-३९२] + गाथा
(०५)
श्रीभगः
३३ उद्दे
लघुवृत्ती
प्रत सूत्रांक [३६०३९२]
के
गाथा
|प्पन्न लम्बूसकादि पूरिमं पुष्पगृहादि सङ्घातिमं तु मिथोनालसङ्घातनेन सङ्घात्य अलङ्कतो वखादिना अत एव विभूषितः-शोभितः । 'केसालंकारेणं'ति चतुरङ्गलावशेषकेशसद्भावात् केशालङ्कारः अथवा केशानामलङ्कारः पुष्पादि 'संगय'ति सङ्गतेषु हसितादिषु | कुशला सुन्दरस्तना 'सकोरिंट'त्ति कोरण्टकपुष्पयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, 'तवणिज्जुजल'त्ति तपनीयस्थ उज्ज्वलौ दण्डौ ययोस्ते तथा, अत्र कनकतपनीययोः को विशेषः ?, उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ'ति दीप्यमाने अहो-रत्नविशेषः 'अमयमहिय'त्ति अमृतस्य मथितस्य सतो यः फेनपुञ्जस्तत्सदशे,'मत्तगय'त्ति गजमहामुखाकृतिसमानं, 'एगाभरणवसण'त्ति एकः एकसदृश आभरणवस्त्रलक्षणो गृहीतो नियोगः-परिकरो यैस्ते, 'अट्ठ'त्ति अष्टावष्टाविति । वीप्सायां द्विच्चं, अन्ये त्वाहु:-अष्टसङ्ख्यानि अष्टमङ्गलसंज्ञानि, 'आलोयं' प्रकाशं दृष्टिगोचरं वा, उग्रा आदिदेवेनारक्षिकत्वे नियुक्ताः तद्वंश्याश्च, भोगास्तेनैव गुरुत्वेनैव व्यवहृताः, 'महापुरिसत्ति वागुरा-मृगबन्धनवागुरेव वागुरा सर्वतः परिवृतत्वात् , महापुरुषवागुरापरिक्षिप्ता ये ते, नागा-हस्तिनः, रहसंगेल्लित्ति रथसमुदायः, 'अन्भुग्गय'त्ति अभ्युद्गतः-सम्मुखमुत्पाटितो। भृङ्गारो यस्य स तथा, 'पवीइय'त्ति प्रवाजिता श्वेतवमरवालानां व्यञ्जाने का यं प्रति, 'कामेहिं जाए'त्ति कामेषु-शब्दादिषु जातः, 'भोगेहिंति भोगा-गन्धरसस्पर्शस्तैस्संवृद्धो-वृद्धिप्राप्तः,'काम'त्ति काभरतेन कामरजसा वा 'नाइ'त्ति ज्ञातीया निजका |R मातुलादयः स्वजनाः-पितृव्यादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिः नो आद्रियते तत्रार्थे नादरवान् ।। (सू. ३८४) अरसैः हिंग्वादिभिरसंस्कृतैः बिरसैः-विगतरसैः पुराणत्वात् अन्तैः सर्वधान्यान्तवर्तिभिः प्रान्तैः-भुक्तावशेषैः कालातिक्रान्तैः-बुभु- क्षाकालाप्राप्तः प्रमाणातिक्रान्तैः-बुभुक्षापिपासामात्रानुचितैः रोगो-व्याधिः आतङ्क:-कृच्छ्रजीवितव्यकारी उज्ज्वलोऽतिगाढत्वात् ।
दीप अनुक्रम [३६२४७३]
१६३॥
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-[०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~32~