________________
आगम
(०५)
प्रत
सूत्रांक
[७१६
८०९]
गाथा
दीप
अनुक्रम [८६१
९७४]
श्रीभग० लघुवृत्तों
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [२५], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१२], मूलं [ ७१६-८०९] + गाथा
ज्ञेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । अल्पबहुत्वद्वारे 'सव्वत्थोवा सुहुम'त्ति स्तोकत्वात् तत्कालस्य, निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात् तेषां 'छेदोवडावणिय'त्ति कोटीशतपृथक्त्वमानतायां तेषामुक्तत्वात्, 'सामाइयसंजया संखेज'त्ति कपायकुशीलसमानतया कोटीसहस्रपृथक्त्यमानत्वेनोक्तत्वात्तेषामिति । 'पडि सेवण'ति (०१०३) चारित्रं प्रति प्रतिकूला सेवा प्रतिसेवा तां । आलोचनादोपगुणान् गुरुगुणांचाह- 'दसविहति (म. ७९९) 'दप्पप्पमायणाभोगे'त्ति इह सप्तमी प्रत्येकं दृश्या, तेन दर्पं सति प्रतिसेवी स्यात्, दप्प- वल्गनादिः प्रमादो-मद्यविकथादिस्तसिन्, अनाभोगब- अज्ञानं तस्मिन् आतुरो- बुभुक्षावृपाघितस्तस्मिन् 'आवईइ य'त्ति आपदि सत्यां, आपञ्च द्रव्यादिभेदेन चतुर्द्धा तत्र द्रव्यापत् प्रासुकद्रव्यालाभः क्षेत्रापत् कान्तारक्षेत्रपतितत्वं कालापद् दुर्भिक्षकालप्राप्तिः भावापद् ग्लानत्वमिति, 'संकिन्ने' त्ति सङ्कीर्णे स्वपरपक्षव्याकुलत्वे सति, 'संकिए'त्ति क्वचित्पाठस्तत्र च शङ्किते आधाकर्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तितणे'। इत्यपि तत्र तिंतणत्वे सति तच्चाहाराद्यलाभे सति सखेदं वचनं, 'सहसकारे 'ति सहसाकारे आकस्मिकक्रियायां यथा पुि अपासिऊणं छूढे पायंमि जं पुणो पासे । न य तरह नियत्तेउं पायं सहसाकरणमेयं ||१||' 'भयप्पओसा य'त्ति भयात्-सिंहादिभयेन प्रतिसेवा स्यात् तथा प्रद्वेषाच, प्रद्वेषश्व-क्रोधादिः, 'वीमंस' ति विमर्शात्- शिक्षकादिपरीक्षणादिति १० प्रतिसेवाः स्युरिति । 'आकंपइत्ता' गाहा (१०४) आकंप्य - वैयावृत्याद्या वर्जितो गुरुः स्तोकं प्रायश्चित्तं मे दास्यतीति बुद्ध्या गुरुं वैयावृत्यादिना आवर्ज्य यदालोचनममावालोचनादोषः, 'अणुमाणयित'ति अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याक| लक्ष्य यदालोन्नमसौ तद्दोषः, 'जं दिडं'ति यदाचार्यादिना दृष्टमपराधजातं बादरं वा सूक्ष्मं वा छनं लज़या, 'सद्दाउलयं'ति
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~ 269~
२५ श०
७ उद्देशः