SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] DJ JOC DE “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [९], वर्ग [-] अंतर् शतक [-] उद्देशक [१-३४], मूलं [ ३६०-३९२] + गाथा श्रीभगभेदा उक्ताः इह पुनरेकादशैव, यतः सम्मूर्च्छिमेषु गर्भजेषु च यद्यसङ्ख्यातं तदा द्वादशोऽपि भेदस्स्यात्, न चैवमत्र, गर्भजनलघुष्टत्तौ राणां स्वरूपतोऽप्यसङ्ख्यातत्वाभावात् तत्प्रवेशन केऽसङ्ख्यातासम्भवाद्, असङ्ख्यातपदेकादशभेददर्शनायाह - 'असंखेजा' इत्यादि, 'सब्वैवि ताव संमुच्छिमि ति सम्मूर्च्छिमानामसङ्ख्यातत्वात् प्रविशतामप्यसङ्ख्यातानां सम्भवः, ततच मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्ते सर्वे स्युः, अत एव सम्मूर्च्छिममनुष्यप्रवेशनकमितरापेक्षया असङ्ख्यातगुणं ज्ञेयं, देवप्रवेशने 'सब्वेऽवि ताब जोइसिएसु होज 'त्ति ज्योतिष्कगामिनो बहव इति तेषूत्कृष्ट पदिनो देवप्रवेशनकवन्तः 'सव्वथोवे वैमाणिए देवप्पवेसणए 'ति तद्गामिनां तत्स्थानां चाल्पत्वादिति । अथ नारकादिप्रवेशन काल्पबहुत्यमाह - (सू. ३८६) तत्र सर्वस्तोकं मनुष्यप्रवेशनकं, मनुष्यक्षेत्र एव (भावात्) तस्य च स्तोकत्वात्, नैरयिकप्रवेशनकं त्वसङ्ख्यातगुणं, तद्गामिनामसङ्ख्यातगुणत्वात् एवमुत्तरत्रापि । अथ नारकाणामुत्पादोद्वर्त्तने सान्त र निरन्तरतामाह- 'संतरं भंते' इत्यादि (सु. ३७८ ) ।। अथ प्रकारान्तरेण नारकादीनामुत्पादोद्वर्त्तने निरूपयन्नाह - 'सओ नेरइया उबवजं ति सन्तो विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत्किञ्चिदुत्पद्यते, असच्चासदेव खरविषाणवत्, सच्चं च तेषां जीवद्रव्यापेक्षया द्रव्यतो नारकास्सन्त उत्पद्यन्ते नारकायुष्कोदयाद्वा, भावनारका एवं नारकत्वेनोत्पद्यन्ते, अथवा 'सओ'ति विभक्तिपरिणामात् सत्सु प्रागुत्पत्रेष्वन्ये उत्पद्यन्ते नोऽसत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सदा सद्भावात्, 'से नूणं भो गंगेया' अनेन च तसिद्धांतेनैव स्वमतं पोषितं यतः पार्श्वेनार्हता शाश्वतो लोक उक्तः अत एव लोकस्य शाश्वतत्वात् सन्त एव सत्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते चेति साध्येतदिति । अथ गाङ्गेयो भगवदतिशायितां ज्ञानसम्पदं विकल्पयन्नाह - 'सयं भंते 'ति स्वयं आत्मना, लिङ्गानपेक्षमित्यर्थः, 'भंते 'ति भगवन् ! 'एवं जाणह'त्ति वक्ष्यमाणप्रकारं मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ••• अत्र शतक ९, उद्देशक: ३१ वर्तते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः ~25~ ९ शतके ४ उद्देशः
SR No.006212
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages305
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy