SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५६२ ५९०] गाथा दीप अनुक्रम [६६० ६९२] “भगवती”- अंगसूत्र -५ (मूलं+वृत्तिः) भाग-२ शतक [१६], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१४], मूलं [ ५६२ - ५९०] + गाथा श्रीभगः । चरमान्तयोः पञ्चेन्द्रियेषु देवानाश्रित्य भङ्गत्रयं सम्भवति, ग्रैवेयक विमानेषु तु देवपश्चेन्द्रियगमागमाभावात् द्वीन्द्रियादिष्वेष पञ्चेलघुवृत्तौ न्द्रियेष्वपि मध्यमभङ्गरहितं शेषं भङ्गद्वयं तयोः स्यादिति । चरमाधिकारादेव परमाणुखरूपमाह - 'परमाणु' (सू. ५८५) इत्यादि, | इदं च गमनसामध्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति । 'वासं वासइत्ति (सू. ५८६) वर्षो वर्षति मेघो नो वा, अचक्षुरालोके हि दृष्टिर्हस्तादिप्रसारणेन ज्ञायत इतिकृत्वा हस्तादिकं आकुञ्चयेद्वा प्रसारयेद्वा आदित एवेति । 'जीवाणं आहारोबचिया पोरगल'त्ति (सू. ५८६) जीवानां जीवानुगता इत्यर्थः, 'आहारोपचिताः' आहारतया चयं पुष्टिं गता इत्यर्थः, बोंदि| चिय'त्ति अव्यक्तावयवशरीररूपतया चिताः, 'कलेवर'त्ति व्यक्तावयवव पुश्चिताः, एवमुच्छ्रासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेनेदमुक्तं- जीवानुगामिस्वभावाः स्युः, ततश्च यत्रैत्र क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, 'पोग्गलामेव 'त्ति पुद्गलानेव 'पप्प'त्ति आश्रित्य जीवानां 'अजीवाण य'ति पुद्गलानां गतिधर्म्मः, 'आहिज्जह' ति आख्यायते, इदमुक्तं स्यात्-यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिः स्यात् एवं चालोके नैव सन्ति जीवाः पुद्गलाथ, तत्र जीवपुद्गलानां गतिर्नास्ति, तदभावाञ्चालोके देवो हस्ताद्याकुञ्चयितुं प्रसारयितुं च न प्रभुरिति । १६ शतेऽष्टमः । 'जहेव चमरस्स'ति (सू. ५८८) यथा चमरस्य द्वितीयशताष्टमोदेशकोक्तस्य सुधर्मसभाखरूपं प्रोक्तं तथा बलेरपि वाच्यं तच तत एवावसेयं, 'एवं पमाणं जहेब तिर्गिछिकूडस्स'त्ति यथा द्वितीयशताष्टमोदेशकोक्त चमरसत्क तिगिंछकूटाख्यगिरेः प्रमाणमुक्तं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं एतदपि ततो ज्ञेयम् 'तं चैव पमाणं'ति यत् प्रमाणं चमरसत्कतिगिंछकूटाख्योत्पात गिर्युपरिवर्तिनः प्रासादावंसकस्य तदेव वलिसत्कस्यापि रुचकेन्द्राख्योत्पातनिर्युपरिवर्त्तिनस्तस्य तदपि द्वितीयशतात् ज्ञेयं, 'सिंहा DIGICPICIICKIGOGO मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः 168~ १६ श० ८ उद्देशः ॥२३१॥
SR No.006212
Book TitleAagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages305
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy