________________
आगम
(०५)
प्रत सूत्रांक
[४९९
५३८]
गाथा
दीप
अनुक्रम
[५९४
६३८]
श्रीभग० लघुवृत्तौ
(CDCDICDIGES
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा
| चुय'त्ति इतश्युतौ द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र तुल्यौ समानजीवद्रव्यौ 'एगड'त्ति एकार्थों, मोक्षप्रयोजनावित्यर्थः, एकस्थौ वा एकक्षेत्राश्रितौ सिद्धिक्षेत्रे इति, 'अविसेसमणाण' त्ति अविशेषं सामान्यं यथा स्वादेवं अनानात्वौ तुल्यज्ञानदर्शनाविति । एतमर्थं किमनुत्तरोपपातिका देवा जानन्तीति प्रश्नः (सू. ५२१) अत्रोत्तरम् - हन्तेति 'लद्धाओ' ति लब्धास्तद्विषयाव धिज्ञानलब्ध्या 'पत्ताओ' ति प्राप्तास्तद्द्द्रव्यावगमतः अभिसमन्वागताः तद्गुणपर्यायपरिच्छेदतः, अयमर्थः - अनुत्तरा देवा विशिष्टावधिना मनोद्रव्यवर्गणा जानन्ति पश्यन्ति च तासां चायोग्यवस्थायामदर्शनेन निर्वाणगमनं निश्चिन्वन्ति, ततश्चावयोर्भावितुल्यतारूपमर्थं जानन्ति पश्यन्ति च ।। 'दव्बतुल्लए'ति (सू. ५२२) द्रव्यतः - एकाणुकाद्यपेक्षया द्रव्यान्तरेण वा तुल्यकं द्रव्यतुल्यकं, 'खेत्ततुल्ल'ति क्षेत्रतः एकप्रदेशावगाढत्वादिना तुल्यकं, एवं नवरं भवो-नारकादिः भावो वर्णादिरौदयिकादिर्वा संस्थानंपरिमण्डलादि, इह तुल्यव्यतिरिक्तमतुल्यं स्यात् तदपीहोच्यते- 'तुल्ला संखेजपएसिए'ति तुल्याः समानाः सख्येयाः प्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यात भेदत्वात् न सङ्ख्यातमात्रेण तुल्यताऽस्य स्याद्, अपि तु समानसख्यात्वेनेत्यस्यार्थस्य प्रतिपादनार्थम् एवमन्यत्रापीति, यच्चेहानन्तक्षेत्र प्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं, तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यानन्तानामभावात् 'भावडयाए 'ति भावार्थतया 'उदइए'ति उदयेन कर्म्मणां विपाकेन निष्पन्न औदयिको भावो - नारकादिपर्यायविशेषः, औदयिकस्य भावस्य नारकत्वादेर्भावतो - भावसामान्यमाश्रित्य तुल्यः समः, 'उवसमिए' त्ति औपशमिकोऽप्येवं वाच्यः, तत्र उदीर्णस्य क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वमुपशमः तेन निर्वृत्त औपशमिक:सम्यग्दर्शनादिः, 'खइए'त्ति कर्मक्षयः (कर्मापगमः) तेन निर्वृत्तः क्षायिकः केवलज्ञानादिः, 'खओवसमिए'त्ति क्षयेण - उदय
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~132~
१४ शु०
उद्देश:
॥२१३||