________________
आगम
(०५)
प्रत सूत्रांक
[४९९
५३८]
गाथा
दीप
अनुक्रम
[५९४६३८]
श्रीभग०
लघुवृतौ
ORIGINA
00143031000000
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा
विकुरुते, न तु शक्रेशानादिवद् देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन कार्यमिति भावः, 'सपरिवारं 'ति निजपरिवारयोग्यासनपरिवृतमित्यर्थः, 'जो जस्स परिवारो'ति तत्र सनत्कुमारस्य परिवार उक्त एव, माहेन्द्रस्य तु सप्ततिः सहस्राणि सामानिकानां ब्रह्मणः पष्टिः सामानिकसहस्राणां लान्तकस्य पञ्चाशत्, शुक्रस्य चत्वारिंशत्, सहस्रारस्य त्रिंशत्, प्राणतस्य विंशतिः, अच्युतस्य दश सामानिकसहस्राणि सर्वत्र सामानिकचतुर्गुणा आत्मरक्षाः, 'पासायउच्चत्तं जं'ति तत्र सनत्कुमारमाहेन्द्रयोः षट् योजनशतानि प्रासादस्योचत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहस्रारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारयुतास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रविचारणाया अविरुद्धत्वात् शक्रेशानौ तु न तथा सामानिकादिपरिवारसमक्षं कायप्रवीचारणाया लज्जनीयत्वेन विरुद्धत्वादिति । १४ शते षष्ठः ॥
'रायगिहे 'ति (सू. ५२० ) तत्र किल वीरः केवलज्ञानानाया सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं तुल्यतामाह-'चिरसंसिडोसि' ति चिरं बहुकालं यावत् संश्लिष्टः - स्नेहासम्बद्धः चिरसंश्लिष्टः असि भवसि मे-मया मम बा, त्वं हे गौतम !, 'संधुओं' ति संस्तुतः - स्नेहात्प्रशंसितः परिचितः पुनः पुनर्दर्शनतः परिचितः, 'जुसिए'ति चिरसेवितः चिरप्रीतितो वा 'जुषी प्रीतिसेवनयोः' इति धातुपाठात् 'अणुगए' ति चिरमनुगतिको ममानुगतिकारित्वात् 'चिराणुवत्तिओ'ति चिरमनुकूलवृत्ति:अनुकूलता यस्यासौ चिरानुवृत्तिः, इदं चिरसंश्लिष्टत्वादिकं क्कासीदित्याह- 'अणंतरदेवलोए' चि देवभवे मनुष्य भवे चेति, तत्र किल त्रिपृष्ठभवे गौतमः सारथित्वेन चिरसंश्लिष्टत्वादि आसीद, एवमन्येष्वपि भवेषु सम्भवतीति, एवं मयि तब गाढस्नेहत्वेन केवलं नोत्पद्यते, भविष्यति तवापि तत्स्नेहक्षये इत्यधृतिं मा कृथाः, 'किं परं मरण' त्ति किं बहुना ? परतो मरणात् अथवा कायस्व भेदाद्धेतोः 'इड
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
~131~
१४ श०
६-७उ.