________________
आगम
(०५)
प्रत
सूत्रांक
[४९९
५३८]
गाथा
दीप
अनुक्रम [५९४
६३८]
श्रीभग० लघुवृत्तौ
00
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१४], वर्ग [-] अंतर् शतक [-]
उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा
को भावः - पर्यायो दुःखितत्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः, 'अणेग भूयं 'ति अनेकभावत्वादेवानेकरूपं परिणामस्वभावं 'परिणम 'ति अतीतकालविषयत्वादस्य परिणतवान् प्राप्तवानिति, 'अहे से'ति अथ तदुःखित्वाद्यनेकभावहेतुभूतं 'बेयणिज्य'त्ति वेदनीयं कर्म उपलक्षणत्वाच्चास्य ज्ञानावरणीयत्वादि च निर्जीर्ण-क्षीणं स्यात् ततः पश्चात् 'एगभावेति एको भावः सांसारिक सुखविपर्ययात् स्वाभाविकसुखस्वभावो यस्यासावेकभावोऽत एवैकभूतः - एकत्वं प्राप्तः 'सिय'ति बभूव, कर्मकृतधम्र्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव, एवं प्रत्युत्पन्नानागतसूत्रे अपीति । 'परमाणुपोग्गले णं'ति (सू. ५११) पुद्गलः स्कन्धोऽपि स्यात्, अतः परमाणुग्रहणं 'वण्णपज्जवेहिं' ति परि-सामस्त्येनावति गच्छन्ति ये ते पर्यवाविशेषाः धर्मा वा इत्यनर्थान्तरं, ते च वर्णादिभेदादनेकधेत्यतो विशिष्यते-वर्णस्य पर्यवा वर्णपर्यवा अतस्तैरशाश्वतः विनाशी, पर्यवाणां पर्यवत्वेन विनश्वरादिति (सः ५१२) यः परमाणुर्यस्माद्विवक्षितभावाच्युतस्सन् पुनस्तद्भावं न प्राप्स्यति स तद्भावापेक्षया चरमः 'अचरमे' त्ति एतद्विपरीतस्त्वचरम इति, 'दव्वादेसेणं'त्ति आदेश :- प्रकारः तेन द्रव्यादेशेन द्रव्यप्रकारेण न चरमः, स हि द्रव्यतः परमाणुत्वाच्च्युतः सङ्घातमवाप्यापि ततथ्युतः परमाणुत्वरूपं द्रव्यत्वमवाप्स्यतीति, 'खेत्ता देस' ति क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात्कदाचिचरमः, कथं यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रेः यः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्वरमोऽसाविति निर्विशेषेण क्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य पुनस्तेन लप्स्यमानत्वात् 'कालादेसेणं' ति स्यात्कथञ्चिचरमः, कथं ?, यत्र काले पूर्वाह्नादौ केवलिना समुद्घातः कृतस्तत्रैव यः परमाणुः परमाणुतया वृतः स तं कालविशेषं के बलिसमुद्घातविशेषितं न कदापि प्राप्स्यति, तस्य केवलिनः सिद्धिगम
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
126~
| १४ श०
४ उद्देशः
॥२१०॥