________________
आगम
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-२ शतक [१४], वर्ग , अंतर्-शतक H], उद्देशक [१-१०], मूलं [४९९-५३८] + गाथा
(०५)
प्रत
श्रीभगः
सूत्रांक
लघुवृत्ती
420
[४९९५३८
गाथा
गरूवंति पूर्व च एकवर्णादिपरिणामात्प्रागेव करणेन-प्रयोगकरणेन विश्रसाकरणेन वा अनेकवर्ण कालनीलवर्णादिभेदेन अनेक| रूपगन्धरसस्पर्शसंस्थानभेदेन परिणाम-पर्याय परिणमइ'त्ति अतीतकालविषयत्वादय परिणतवानिति द्रष्टव्यम् , पुद्गल इति प्रकृतं. स च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान् , यदि च स्कन्धस्तदा यौगपद्येन, अहे सेत्ति अथानन्तरं । स एष चानेकवर्णादिपरिणामो निर्जीर्ण:-क्षीणः स्यात् , परिणामान्तराधायककारणोपनिपातवशात् , ततो निर्जरणानन्तरं एकवर्णोऽपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय'त्ति बभूव अतीतकालविषयत्वादस्पेति प्रश्न: | इहोत्तरमेतदेवेति, अनेन च परिणामता पुद्गलद्रव्यस्य प्रतिपादितेति, 'पटुप्पण्णं'ति विभक्तिपरिणामात् प्रत्युत्पन्ने-वर्तमाने । | शाश्वते सदैव तस्य भावात् समये-कालमात्रे ‘एवं चेव'त्तिकरणात् पूर्वसूत्रोक्तमिदं दृश्यम् , 'समयं लुक्खी समयं अलुक्खी | | लुकखी वा अलुक्खी वे'त्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्तमानसमयस्थानन्तत्वासम्भवाद् , अतीतानागतसत्रयोस्तु अनन्तमि-1 त्यधीतं तयोरनन्तत्वसम्भवादिति । अनन्तरं पुद्गलखरूपमुक्तम् , पुद्गलश्च स्कन्धोऽपि स्वादिति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं दर्शयन्नाह-'एस णं भंते ! खंधे'इत्यादि। स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्वादिति जीवस्वरूपमाह-एसणं भंते! जीवेत्ति (सू. ५१०) एप प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखहेतुयोगात् समयं दुःखी सुखहेतुयोगात् सम-1 यमेकं सुखी बभूव, समयमेव सुखी दुःखी वा तद्धेतुयोगात्, न पुनरेकदा दुःखसुखवेदनमस्त्येकोपयोगत्वाञ्जीवस्येति, एवंरूपः सबसौ स्वहेतुतः किमनेकभावं परिणाम परिणमति पुनकभाबपरिणामः स्यादिति पृच्छमाह-'पुटिव च णं करणेणं अणेगभावं'ति पूर्व च एकभावं परिणामात्प्रागेव करणेन-कालस्वभावादिकारणसंवलितया शुभाशुभकर्मबन्धहेतुभूतया क्रियया अने
दीप अनुक्रम [५९४६३८]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] “भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
~1254