________________
आगम
(०५)
प्रत
सूत्रांक
[४९९
५३८]
गाथा
दीप
अनुक्रम
[५९४
६३८]
श्रीभग० लघुवृत्तौ
JCCCCCCXJCJOG
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१४], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४९९ ५३८] + गाथा
रस्य च दुःखवेदनस्वभावत्वाद् इतरस्तु सुखविमोचनतर एव, एकभविकत्वादिति, तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरः स्यात्, विद्यामन्त्रतत्रदेवानुग्रहवतामपि वादिकानां तस्यासाध्यत्वाद्, इतरस्तु सुखविमोचनतर एव स्यात्, मन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति, आह च सर्वत्र मन्त्रवाद्यपि यस्य न सर्वस्य निग्रहे शक्तः । मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः ॥१॥" 'उम्मादं पाउणेज्ज' त्ति प्रामुयात् कुर्यादित्यर्थः 'पुढविकाइयाण' मित्यादौ यदुक्तम्- जहा नेरइयाणं, तेन देवे वा से असुभे पुग्गले पक्खिवेजा इत्येतद्यक्षावेशे पृथ्व्यादिसूत्रेष्वध्यापितम् 'वाणमंतरे' त्यादौ यदुक्तम्- 'जहा असुराणं तेन यक्षावेश एव व्यन्तरादिसूत्रेषु 'देवे वासे महितिराए'ति महर्द्धिकतरकः इत्येतदध्यापितम्, मोहोन्मादालापस्तु सर्वत्र समान इति ।। अथ वृष्टिकायकरणं देवेन्द्रादीनामाह-'अस्थि त्ति (सू. ५०३) अस्त्येतत् 'पजने'त्ति पर्जन्यः, 'कालवासि' त्ति काले-प्रावृषि वर्षतीत्येवंशीलः कालवर्षी 'बुट्टिकार्य'ति वृष्टिकायं प्रवर्षणतो जलसमूहं 'पकरे 'ति प्रकरोति, प्रवर्धतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यं, तत्र पर्जन्यस्य प्रचर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधि: प्रतीत एव, शक्रप्रवर्षणक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह - 'जाहे' त्यादि, अथवा पर्जन्य इन्द्र एवोच्यते, स च कालवर्षी काले- जिनजन्मादिमहादौ वर्षतीतिकृत्वा, 'जाहे 'ति यदा 'से कहमियाणि ति स शक्रः कथं तदानीं प्रकरोति ? वृष्टिकायमिति प्रकृतम्, असुरकुमारसूत्रे 'किं पत्तियणं'ति किं प्रत्ययं, किं कारणमाश्रित्येत्यर्थः, 'जंमणे' त्यादि, 'तमुकाइए 'त्ति (सू. ५०४) तमस्कायकारिणः 'किडारइपत्तिय'ति क्रीडारूपा रतिः प्रत्ययः - कारणं यत्र तत् क्रीडारतिप्रत्ययं 'गुत्तीसंरक्खण'त्ति गोपनीयद्रव्यसंरक्षण हेताविति, चतुर्दशशते द्वितीयः ॥ 'देवेणं'ति (सू. ५०५ ) इह कचिदियं द्वारगाथा दृश्यते - "महकाए सकारे सत्थेणं वीवयंति देवा उ। वीसं चैव य ठाणा
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
122~
१४ श० १२ उद्देशः
450
॥२०८॥